|| Tukaram ||

Tukaram is very dear to me.- Mahatma Gandhi

सन्तश्रेष्ठानां तुकाराममहाराजानां संक्षिप्‍त चरितम्‌

लेखक : श्रीधर मोरे
अनुवादक- आशा गुर्जर

ये तु धर्म्यामृतमिदम्‌- गीता १२.२०

ये कथां रम्याममृतधाराधर्म्याम्‌। कुर्वन्ति प्रतीतिगम्यां श्रुत्वा ते। देवस्य चरितं परमामृतं कथ्यते। भक्तचरितं तु धर्म्यामृतम्‌। देवचरितांनि संतसज्जनै: गीतानि। परं संतचरितानि गातुं अस्मादृशै: सामान्यै: कठिनमेव। यत: सन्त: यथा दृश्यन्ते तथा ते तत्त्वत: न भवन्ति यथा च भवन्ति तथा न दृश्यन्ते। ततोऽपि अस्मच्छब्दधनमपि स्तोकम्‌ अल्पस्वल्पं च।

अस्मादृशानां कथां वक्तुं न हि वाक्सृष्टिरस्ति हि।
अस्मादृशानां दृष्टिश्च केवलं नाममात्रिका। ( अमृतानुभव:)

यदि भवन्त: पृच्छन्ति सन्तजनम्‌-‘कस्त्वम्‌? कुत आयात:? कुत्र गम्यते? किं नामधेयो भवान्‌? किंरूप:?’ इति। तदा स: कथयेत्‌ ‘न किमपि कथनीयम्‌ अत्र’ इति।

नास्मि कस्यापि ग्रामस्य एकोऽहं एकस्थानक:।
न गच्छामि कुत्रापि पुनरागमनं कुत:? वाचामात्रमिदं सर्वम्‌।
नामरूपक्रियाकर्म-अतीतोऽस्मि, तुकावच:।
एवं स्थितेऽपि तुकाराममहाराजस्य महत: चरितस्य अल्पांशं प्रस्तोतुं प्रयतिष्यामहे।

१. जन्म तथा पूर्वजा:

तुकाराममहाराजस्य जन्मभूमि-कर्मभूमिभूतं देहूस्थानं पुण्यभूमि:। देहूग्राम: धन्यत्वं पुण्यत्वं प्राप्त: अत्र पाण्डुरङ्‍गस्य वासहेतो:। जागृतं स्थानमिदम्‌।

bandardara इन्द्रायणीनद्या: शोभने तीरे पाण्डुरङ्गस्य देवालय: वर्तते। कटिप्रान्ते करौ धृत्वा विश्वजनिता तिष्ठति अत्र। वामभागे माता रुक्मिणी, अग्रत: अश्वत्थ:। समीपमेव गरुड: साञ्जलि: स्थित:। द्वारि विघ्नराज:। बहि: भैरव: हनुमांश्च तिष्ठत:। दक्षिणदिशायां हरेश्वरस्य देवालय:। नातिदूरं बल्लालवनम्‌। तत्र सिद्धेश्वरस्य अधिष्ठानम्‌। धन्यास्ते क्षेत्रवासिन:। भाग्यशालिन:। वाचा ये सततं देवस्य नामघोषं कुर्वन्ति। तुकारामकालीनम्‌ एतद्‌ वर्णनं देहूग्रामस्य।

तुकारामत: त्रिशतवर्षपूर्वं तेषां पूर्वज: विश्वंभरबाबा देहूग्रामे वसति स्म । कुलदैवतम्‌ आसीत्‌ विठोबा-विट्ठल:। कुले आषाढीकार्तिकी-वारीगमनं विश्वंभरबाबानां कुलक्रमागतमासीत्‌। यथा पुण्डलिकस्य सेवया वैकुण्ठत: देव: पण्ढरपुरम्‌ आगत: तथैव विश्वंभरबाबानां वारीनियमं अक्षुण्णतया प्रचालयितुं तेषां मातृसेवया पण्ढरपुरत: धावन्‌ आगत: देव: देहूग्रामम्‌।

सेवया पुण्डलिकस्य वैकुण्ठात्‌ पण्ढरीं गत:।
विश्वंभरपूर्वजस्य, दृढया भक्तिसेवया।
पण्ढरपुरं हि त्यक्त्वासौ देहूमुषितुमागत:।

आषाढशुद्धदशम्यां विश्वंभरस्य स्वप्नदृष्टान्त: बभूव। "अहं तव ग्रामे उषितुमागतोऽस्मि" इत्युक्त्वा देव: निद्रिस्त: आम्बीयवने। प्रात: विश्वंभर: ग्रामस्थसमवेत: आम्बीयवनं गत: । तत्र प्राप्तं तेन विट्ठ्लरुक्मिण्यो: मूर्तिद्वयम्‌।

bandardara तयो: स्थापना विश्वंभरेण स्वगृहगते देवालये विहिता। पञ्चक्रोशीगता: जना: दर्शनार्थम्‌ आगच्छन्ति स्म। प्रतिवर्षं महोत्सव: प्रारब्ध:। महोत्सवव्ययार्थं क्षेत्रं पारितोषिकरूपेण प्राप्तम्‌। शुक्लएकादश्यां ’वारी’ गमनागमनं प्रारब्धम्‌। गते पञ्चत्वं विश्वंभरे तस्य पुत्रौ हरिमुकुन्दौ देवसेवां मूलां विहाय क्षात्रवृत्तिं स्वीकृतवन्तौ। सकुटुम्बं ताभ्यां राजाश्रय: स्वीकृत:। तत्र सैनिकसेवायाम्‌ आधिकारपदं प्राप्तौ। तयो: मात्रे आमायै तन्न रुचितम्‌ । परमेश्वरस्य अपि तन्न सम्मतम्‌ । देवेन स्वप्ने उपस्थाय तस्यै कथितम्‌-’भवदर्थम्‌ अहम्‌ पण्ढरपुरत: देहूम्‌ आगत:, भवद्भिश्च राजाश्रय; स्वीकृ‌त:। अनु चितमेतत्‌। देहूं प्रत्यागन्तव्यं सत्वरम्‌’ इति । आमार्या पुत्राभ्याम्‌ स्वप्नवृ‌त्तान्तं निवेदितवती। वारंवारं सानुरोधं देहूं प्रत्यागमनार्थं विज्ञप्तं तया। पुत्राभ्यां तत्‌ किञ्चिदपि न मनसि कृ‌तम्‌। सपदि राज्यं परचक्राक्रान्तमभूत्‌ । बन्धुद्वयं रणाङ्गणे युध्यमानं वीरगतिं प्राप्तम्‌। मुकुन्दपत्न्या सहगमनं कृ‌तम्‌। हरे: पत्नी गर्भिणी आसीत्‌। तया सह आमार्या देहूं प्रतिनिवृ‌त्ता। स्नुषाम्‌ अपत्यसंभवार्थं मातृ‌गृ‌हं प्रेषयित्वा देवसेवयां मग्ना अभवत्‌। हरिपत्नी पुत्रं प्रासूत्‌। विट्ठल तस्य नाम कृ‌तम्‌। विट्ठ्लस्य पुत्र: पदाजी, पदाजीत: शङ्कर: - शङ्करस्य पुत्र: कान्होबा, कान्होबापुत्र: बोल्होबा। बोल्होबार्यस्य पुत्रत्रयम्‌ - ज्येष्ठ: सावजी, मध्यम: तुकाराम: कनिष्ठश्च कान्होबाराय: । तुकाराममहाराजानां जन्म यस्मिन्‌ कुले अभवत्‌ तत्‌ पवित्रमासीत्‌ ।

पवित्रं तत्‌ कुलम्‌ पावन: स देश: यत्र हरिदासा: जनिं प्राप्ता:। तत्‌ कुलं क्षत्रियाणाम्‌ आसीत्‌ । पूर्वजै: रणाङ्गणे युध्यमानै: प्राणार्पणं कृ‌तम्‌ आसीत्‌। कुलं संस्कारपूर्णम्‌ आसीत्‌ । धार्मिकम्‌ आसीत्‌। विट्ठ्लोपासना परम्परया आगता आसीत्‌। क्षेत्रसम्पत्‌ , वार्धुषिक्यं वैश्यव्यवसायश्च आसीत्‌। प्रासादप्रतिमं गृहद्वयम्‌ आसीत्‌- एकं वास्तव्यार्थम्‌, अपरं च ’महाजनस्य करग्रहणादिव्यवहारार्थं विपणिषु। ग्रामे मानमान्यता, पञ्चक्रोश्यां प्रतिष्ठा चासीत्‌। क्षेत्रकर्षणात्‌ कृ‌षका: व्यापारवृत्तित्वात्‌ वैश्या: कुलजना: कथ्यन्ते स्म। तुकाराममहाराजै: सर्वमेव परित्यक्‍तम्‌ उपेक्षितम्‌ अत: ते ’गोसावी’ पदवीं प्राप्नुवन्‌। ’गोसावी’ अस्य कुलस्य उपनाम नासीत्‌। उपनाम तु मोरे इत्यासीत्‌। गोसावी तावत्‌ वश्येन्द्रियत्वात्‌ प्राप्ता पदवी आसीत्‌। गीतारचनाकाले एव वैश्या: शूद्रत्वेनैव गण्यन्ते स्म। अत एव उक्तं गीतायाम्‌-

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्‌ । गीता ९.३५
ज्ञानदेवसमये क्षत्रियाणां गणनापि शूद्रत्वे अभूत्‌ ।
तथैव क्षत्रियवैश्यस्त्रिय: । अथवा शूद्रान्त्यजापि । ज्ञानेश्वरी ९.४६०

द्वावेव वर्णौ अवशिष्टौ - ब्राह्मण: शूद्रश्च। अत एव तुकाराममहाराज: शूद्रत्वेन गणित: अभूत्‌।

२. राजकीया सामाजिकी धार्मिकी च स्थिति:

दक्षिणभारते तदानीं मुसलमानानां राजकीया सत्ता आसीत्‌ । गोवाप्रान्ते पोर्तुगीजा: सत्ताधारिण:। विजापुरे आदिलशाही, अहमदनगरे निजामशाही, गोवळकोण्डाप्रान्ते कुतुबशाही इत्येतासां सत्तानां परस्परसंघर्ष: आसीत्‌। युद्धविभीषिकया ग्रामाणि निर्जनानि भवन्ति स्म, लुठन्ते स्म। राजान: कामविलासेषु मग्ना: आसन्‌। प्रजापीडकाश्चासन्‌। आचारभ्रष्टा: ब्राह्मणा:। क्षत्रिया: वैश्यान्‌ लुठन्ति स्म। बलात्‌ धर्मान्तरं प्रचलति स्म। महाराज: लिखति । कथयति-

धर्माचारं परित्यज्य द्विजा पाखण्डचौरवत्‌ ।
राजा स्वयं पीडयति वैश्यक्षत्रियबान्धवान्‌॥

एवं गते वैश्यशूद्रविषये किं वक्तव्यम्‌? धर्मलोपात्‌ सर्वत्र अधर्मराज्यं प्रावर्तत।

एवं अधर्मस्य बलात्‌ धर्म: लुप्‍तश्च सर्वथा।

अधर्म एव धर्मपदवीं प्राप्त:। सन्तसज्जना: अवमानिता अभवन्‌।

न च देवा: सम्मानिता: मुस्लिमा: देवा: सञ्जाता:।

समाज: नानादैवतपूजकत्वात्‌ विशकलित: आसीत्‌। धर्म: आकर्षणबिंदु:, धारणक्षमश्च नासीत्‌। अज्ञानान्धकारस्य साम्राज्यं सर्वत्रातिष्ठत्‌। सर्वे प्रकाशदायकस्य सूर्यस्य प्रतीक्षापरा: आसन्‌। अस्यां परिस्थितौ देहूग्रामे चित्सूर्योदय: सञ्जात:।

सन्तगृ‌हमेलापके, गिलति जगदन्धकारम्‌-उदित: भानु: तुकारूप:।

भगवद्‌भक्तयो: बोल्होबा-कनकार्ययो: उदरे त्रिंशदधिकपञ्चदशशतोत्तरे शाके संवत्सरे तुकाराममहाराज: जनिं लब्धवान्‌। श्रीमतां गृ‌हे बाल्यं सुखेनैव क्रीडायां वात्सल्यकुतुके च व्यतीतम्‌। प्राथमिकमध्ययनम्‌ अध्यापकद्वारा गृ‌हे एव अभूत्‌। अध्यापक: हस्ते लेखनफलकं गृ‌हीत्वा बालकस्य हस्तं स्वकरेण धृ‌त्वा पाठयन्ति।

बालकस्य कृ‌ते नूनम्‌। गुरो: हस्ते लेखनफलक:।

बाला: पाषाणखण्डानाम्‌ साहाय्येन अक्षरविरचनं कुर्वन्ति स्म।

विन्यासाय अक्षराणां विरचनं पाषाणखण्डानाम्‌।

पिता बोल्होबा तुकारामाय प्रापञ्चिकान्‌ पारमार्थिकान्‌ पाठान्‌ सममेव अपाठयत्‌। ज्येष्ठेण बन्धुना सावजिना उद्यमान्वेक्षणं प्रत्याख्यातम्‌। पित्रा कुलक्रमागतस्य वार्धुषिकव्यवहारस्य दायित्वं तुकारामे निक्षिप्तम्‌। विपणिषु विद्यमाने उद्यमगृ‌हे पितृ‌सहायकत्वेन कार्यं निभालयता तुकारामेण प्राप्तं पर्याप्तं पाटवं तस्मिन्‌ व्यवहारे। वयस: त्रयोदशवर्षे एव प्रपञ्चस्य दायित्वं तुकारामस्य स्कन्धयो: आपतितम्‌। महाराज: स्वतन्त्रतया व्यवहारार्थं समर्थ: अभवत्‌। अचिरादेव व्यवहारोद्यमे तेन स्वस्यासनं स्थिरीकृ‌तम्‌। स: जनानां प्रशंसाभाजनम्‌ अभवत्‌। गृ‌हगतं सात्त्विकं वातावरणं व्यवसायक्षेत्रेऽपि समानीतम्‌। बन्धुत्रयस्य विवाहा: सम्पन्ना:। महाराजानां प्रथमा पत्नी सततं कासपीडिता अवर्तत। अत: तेषां द्वितीय: विवाह: पुण्यपत्तनस्थस्य प्रसिद्धस्य वार्धुषिकस्य अप्पाजी गुळवे महोदयस्य कन्यया जिजाऊ उपाख्यया आवल्या सह सञ्जात:। उभयो: समृ‌द्धयो: कुलयो: एष संयोग: अधिकतरसमृ‌द्ध्यर्थं प्राभवत्‌। ऐहिक‍ऐश्वर्यं परां कोटिं प्रारोहत्‌। गृ‌हे विपुलं धनधान्यमासीत्‌। वत्सलौ पितरौ , सज्जना: बान्धवा: आरोग्यसम्पन्नं च शरीरमासीत्‌, नासीत्‌ अण्वपि किमपि न्यूनम्‌।

सज्जना: मातृ‌पितृ‌बान्धवा:। गृ‌हं धनधान्यसमृ‌द्धम्‌।
शरीरे आरोग्यं लोके मान:। न अण्वपि न्यूनं कथमपि तत्र।

(महिपतबाबाचरितम्‌) सुखसमाधानैश्वर्यपूर्णानि दिनानि कथं कदा च अतीतानि तन्न ज्ञातम्‌। तदुत्तरं तावत्‌ "सुखस्यानन्तरं दु:खम्‌’ इति सत्यम्‌ समुपस्थितम्‌।

३. मातृ‌पितृ‌वियोग:

वयस: सप्‍तदशतमे वर्षे वत्सल: कार्यकुशल: च पिता स्वर्गत:। स एव उभयविधेन पैतृ‌करिक्थेन तुकाराममहाराजं ऐश्वर्यशालिनं व्यधात्‌।

यस्याश्रयेण दूरं तिष्ठति स्म । प्रपञ्चताप:, तच्छ्त्रमेव विनष्टम्‌ ।
अकस्माद्‌ एव पिता -त्राता संसारदु:खस्य दिवं गत:।

पितृ‌देहावसानसमये तुकाराम: तस्य सविधे नासीत्‌। तेन तस्य असह्यं दु:खमनुभूतम्‌। किञ्चिदिव न्यूनीभूयमाने तस्मिन्‌ दु:खे संवत्सरेण माता तस्य अपि समक्षं पञ्चत्वं गता।

पश्यतो मे- मातापि गता- मृ‌त्युलोकम्‌।

महाराजस्य शिरसि दु:खपर्वत: इव पतित:। मात्रा महाराजस्य कृ‌ते किं न आचारितम्‌, सर्वमेव सुष्ठु समाचरितम्‌।

किं किं न करोति माता बालस्य लालने ।
तस्या: सेवा च पुष्टिश्च सदा तस्य हितेच्छया।
विनालस्यं विना कुत्सां गृ‌हीत्वा कुक्षिस्कन्धयो:।

वयस: अष्टादशवर्षे ज्येष्ठबन्धो: सावजीरायस्य पत्नी दिवं गता।आदावेव सावजी प्रपञ्चविरत: आसीत्‌ पत्नीनिधनेन सोऽपि बन्ध: गत:। तीर्थयात्रानिमित्तेन स: अपुनरागमनाय गृ‌हत्यागं कृ‌तवान्‌। कुटुंबात्‌ जनचतुष्टयं वियुक्तम्‌। यस्मिन्‌ प्रपञ्चे किमपि न्यूनं नासीत्‌ तस्मिन्‌ क्रमश: न्यूनै: प्रवेश: कृ‌त:। महाराजेन धैर्येण सर्वं सोढम्‌। औदासीन्यं दूरं स्थापयित्वा सम्यक्‌ प्रपञ्चार्थं तेन मन: कृ‌तम्‌। परं हा हन्तं ! एकविंशतितमे वर्षे काल: विपरीत: आगत:। दक्षिणदेशे महान्‌ अकाल: प्रावर्तत। अतीव भयंकर: आसीत्‌ स अकाल:। ख्रिस्ताद्बस्य १६२९ संवत्सरे, देव: विलम्बेन वृ‌ष्ट:। अन्तिमचरणे अतिवृ‌ष्ट्या सस्यानि विनष्टानि। तथापि जना: दृ‌ढं आशाबद्धा आसन्‌। अग्रिमे वर्षे देवो रुष्ट: न मनागपि वृ‌ष्टिरभवत्‌। सर्वत्र हाहाकार: अभवत्‌। धान्यं महार्घं समजायत । शतश: गावो मृ‌ता: यवसाभावात्‌। अन्नाभावात्‌ शतश: जना: कालकवलीभूता:। धनसम्पन्नानि कुलानि धूलसाद्‌ भूतानि। ख्रिस्ताब्दस्य एकत्रिंशदधिकषोडषशततमे संवत्सरे दैवीकोपेन अतिवृ‌ष्ट्या क्षेत्राणि नष्टभ्रष्टानि। महापुरे बहुविधा हानि: सञ्जाता। एषा दुर्दशा वर्षत्रयपर्यन्तं स्थिता। एतां विघ्नवर्धमानां परिस्थितिं वर्ण्यति महीपतिबाबार्य:-

काल: कठिन: समायात:- धान्याभाव: गृ‌हे गृ‌हे।
वर्षाकाल: जलं विना- मृता गाव: यवसं विना।

तदुत्तरं अकालेन उग्रतमं रूपं धृ‌तम्‌।

काले घोरे अभावपूर्णे धरणी आढकमात्रा।
तदपि न प्राप्नुवन्ति जना: - प्रयान्ति जना: मृ‌त्युसदनम्‌ ।
रत्नाढकस्य मूल्येनापि आढकमिता: माषा: दुष्प्रापा आसन्‌।
अकालाद्धि धनं सर्वं मानोऽपि विलयं गत:।

अस्मिन्‌ अकाले महाराजस्य प्रपञ्च: पूर्णतया विलयं गत:। गाव: मृ‌ता:। वार्धुषिकवृ‌त्ति: विनष्टा। व्यापारोद्यम: खण्डित:। मानोऽपि क्षयं गत:। प्रथमं तावत्‌ पत्नी रखुमार्या एकल: पुत्र: सन्तोबा च अकालकवलीभूतौ। वार्धुषिकवणिग्जनाश्च अकालं सुवर्णप्राप्तिकालं मत्वा निर्ममतया पीडयन्ति दीनजनान्‌। कृ‌त्रिमां अभावग्रस्ततां निर्माय अद्यतनीया: लुठन्ति जनसामान्यान्‌, एतत्तु वयं अधुनातने काले पश्याम:। अकालसदृ‌श्यां दुरवस्थायामपि धनप्रत्यर्पणं जनेभ्य: याचितुं कठोरहृ‌दयं आवश्यकम्‌। तुकाराममहाराज: सर्वथा विरुद्ध: दयावान्‌ । स्वां दुदर्शां विस्मृ‌त्य - दूरं स्थापयित्वा अकालपीडितेभ्य: महाराजेन बहुधनं वितरितम्‌।

यद्‌ किमपि अवशिष्टं तत्‌ सर्वमपि दत्वा - द्विजयाचकेभ्य: ।
तुका निष्काञ्चनोऽभवत्‌ ।

कश्चिद्‌ द्रव्यभाग: कालक्रमेण व्ययं गत आसीत्‌, यद्‌ किमपि अवशिष्टं तत्‌ याचकेभ्य: ब्राह्मणेभ्यश्च यथाभिलाषं विभजितं तुकाराममहाराजेन ।

प्रपञ्चं शून्यतां नीत्वा । पुण्यधर्म: बहु: कृ‌त: ।

पितरौ- पत्‍नीपुत्रादीनां मृ‌त्यु: अकालकृ‌ता सर्वमुखी दुरवस्था, बान्धवकृ‌ता निन्दा, मानहानि: इत्यादय: विपत्तय: महाराजेन महता धैर्येण सोढा:। तेषां प्रतीकार: कृ‌त: । पलायनपर: नासीत्‌ महाराज: । प्रपञ्चं जेतुं स: उत्सुक: आसीत्‌। रणाङ्‌गणात्‌ भीरुवत्‌ प्रत्यावर्तनम्‌ असम्मतमासीत्‌ तस्य। असारात्‍सार: स्वीकरणीय आसीत्‌। विपद्‌ग्रामेण देहस्य देहाधारितानां सम्बन्धानां , धनमानादीनां क्षणभङ्गुरत्वं अशाश्वतत्वं च प्रत्यक्षीकृ‌तमासीत्‌ तुकारामेण। तेन हि शाश्वतस्य, शाश्वतसुखस्य अन्वेषणं प्रारब्धम्‌ । चिन्तनं प्रारब्धम्‌- कथं उद्वेगशमनोत्तरं परतीरं प्राप्नुयामि इति।

३. मातृ‌पितृ‌वियोग:

उत्तीर्णोऽहं भवे: कस्मात्‌ मनसा सुष्ठु चिन्तितम्‌ ।

सत्यसंशोधनार्थं स: प्रस्थित:। भामनाथपर्वतं गत:। चिरंतनस्य साक्षात्कारोत्तरमेव प्रत्यावर्तेयम्‌ इति प्रतिज्ञातं तेन। महाराजेन उग्रं तप: प्रारब्धम्‌ । महाराजस्य शरीरम्‌ पिपीलिकावृ‌श्चिकसर्पादय: आक्रमन्ति स्म । तं पीडयन्ति स्म। व्याघ्रेण स आक्रान्त:। तथापि महाराजस्य निश्चय: सुदृ‌ढ: आसीत्‌। पञ्चदशमे दिने सत्यं साक्षात्कृ‌तं तेन ।

दृ‌ढं स्थित्वा भामगिरौ परब्रह्मणि सुस्थिर: ।
व्यालवृ‌श्चिकव्याघ्रैश्च नित्यं यद्यपि पीडित:।
तपसा निश्चयात्‌ तस्य सोढ्वा कष्टान्‌ बहून्पुन:।
दिनै: पञ्चदशैरूर्ध्वं विट्‍ठल: साक्षितां गत:।

निराकार: परमात्मा प्राप्‍त: । देवेन भक्‍त: ’चिरंजीव’ इति आशीर्वचोभि: अनुगृ‌हीत: समाश्वासितश्च ।

अन्तर्यामी सहायोऽभूत्‌ ददौ बुद्धिमविनाशिनीम्‌ ।

महाराजस्य गृ‌हत्यागानन्तरं तस्य अनुज: कान्होबा तस्य अन्वेषणार्थं देहूगावपरित: गिरिकन्दरेषु विचरन्‌ आसीत्‌ । भ्रमन्‌ स: भामनाथपर्वतं प्राप्‍त:। आश्चर्यचकितश्च सञ्जात:।

तुकारामस्य देहोपरि पिपीलिकाव्याघ्रादीनां आक्रमणं दृष्ट्वा व्यथित: स: साक्षात्कारोत्तरं भानम्‌ आगतम्‌ । तुकारामं मिलित्वा स: आनन्दित: अस्य साक्षात्कारस्य स्थलस्य स्मृत्यर्थं कान्होबा तत्र पाषाणराशिं स्थापितवान्‌ । तुकारामं गृहित्वा स: देहूं प्रतिनिवृत्त: । कान्होबात: ऋणप्रतिज्ञापत्राणि याचितानि तुकारामेण । तेषां अर्धं कान्होबामहोदयाय समर्पितम्‌ । स्वांशे आगतानि ऋणप्रतिज्ञापत्राणि सपदि इन्द्रायण्यां निमज्जितानि, सर्वे वराका: ऋणमुक्‍ताश्च कृता: । एष तावत्साक्षात्‌ समाजवाद: । स्वप्रपञ्चार्थं धनस्य आवश्यकतायां सत्यामपि तेन तद्‌ अविगणय्य वार्धुषिकवृत्तिं सर्वथा त्यक्‍त्वा ईश्वराराधनं परं मतम्‌ ।

कुलपरंपरागतं विट्ठलमन्दिरं भग्नमासीत्‌ । तस्मिन्‌ स्थले नूतनं मन्दिरं निर्मितम्‌ । प्रपञ्चं पृष्ठत: कृत्वा स: ईश्वरभजने तल्लीन: अभवत्‌ ।

कण्ठस्थीकृ‌तानि। सज्जनानां वचनानि। विश्वासादरपूर्वकम्‌ ।

कीर्तनार्थं तुकारामेण देवालय: निर्मित: न तु पुण्यलाभाय । हरिसंकीर्तनार्थं उपोद्‌बलकं पठनपाठान्तरं कर्तुं महाराज: प्रतिदिनं भंडारापर्वतं गत्वा एकान्ते अभ्यासं करोति स्म । प्रतिदिनं प्रात: स्नानादिकं परिसमाप्य कुलदेवताया: अर्चां स्वयं विधाय भंडारापर्वत: श्रयणीय इति आसीत्‌ तस्य क्रम: ।

कीर्तनं सम्पूर्णं कर्तुं हस्तगतं, तुका करोति नूनम्‌ अध्ययनम्‌ ।

यथा नदीनां समुद्रं परायणं तथैव अध्ययनस्य तुकोबाराय: । यस्य हि श्रवणं हृ‌द्देशे स्थापनं ग्रंथानां पठनम्‌, निरन्तरम्‌ ।

ज्ञानदेवमहाराजस्य ज्ञानदेवी अमृ‌तानुभवश्च , एकनाथमहाराजस्य एकनाथीभागवतटीका, भावार्थरामायणम्‌, स्वात्मानुभव:, नामदेवरायस्य अभङ्गा:, कबीरस्य पदानि इत्यादिकं साहित्यं महाराजेन परिशीलितम्‌ । ज्ञानदेव-एकनाथ-नामदेव-कबिरादीनां कानिचन वचनानि महाराज: कण्ठस्थीकृ‌तवान्‌ ।

सार्थं कण्ठस्थीकरणं भाषणं करुणापरम्‌।
येन कृ‌तं पूर्णतया तत्र कारणं सन्तप्रसाद:।

निर्गुणनिराकार: परमात्मा यै: सगुणरूपेण वर्णित: , अमूर्ताय यै: मूर्तत्वम्‌ उपहारीकृ‌तम्‌ तेषां सन्तसज्जनानां प्रसाद: महाराजेन सेवित: । दृ‌ष्टानि पुराणानि अवलोकितानि च शास्त्राणि।

सम्यक्‌दृ‌ष्ट्वा पुराणानि ,आदृ‌तानि दर्शनानि।
पुराणान्तरेषु इतिहास: सेवित: स्वादुरस:।

एकान्तवास: महाराजाय अतीव अरोचत। तस्मिन्‌ एकान्ते अपि नैके तस्य सखाय: समभवन्‌। लौकिकसखीभ्य: ते इतरा एव आसन्‌। के ते आसन्‌? वृ‌क्ष -वल्लरी - वनचरा: तस्य अभवन्‌ सखाय:। पक्षिराजान: मधुरमञ्जुस्वरेण परमेशं स्तुवन्ति स्म।

वृक्ष-वल्ली-वनचरा: सन्ति न: स्निग्धबान्धवा: ।
सुखयन्ति च कूजन्त: पक्षिणो मधुरस्वरा: ॥ १ ॥
प्रिय एकान्तवासोऽस्ति एतत्‌-सुख-निमित्तत: ।
अस्पृष्टाश्च वयं स्मोऽत्र गुण-दोषापवादत: ॥ धृ ॥

आकाश-मण्डपाधश्च आसने पृथिवीमये ।
रमते यत्र चित्तं मे तत्र क्रीडां करोत्यद: ॥ २ ॥
प्रिय एकान्तवासोऽस्ति एतत्‌-सुख-निमित्तत: ।
अस्पृष्टाश्च वयं स्मोऽत्र गुण-दोषापवादत: ॥ धृ ॥

कन्था, कमण्डलुश्चैतौ पर्याप्‍तौ देह-सेवने ।
वायुस्‌ तत्तत्‌-स्वरूपोऽस्ति समयस्य च सूचक: ॥ ३ ॥
प्रिय एकान्तवासोऽस्ति एतत्‌-सुख-निमित्तत: ।
अस्पृष्टाश्च वयं स्मोऽत्र गुण-दोषापवादत: ॥ धृ ॥

कौशल्य-कृत-विस्तारं भोजनं च हरे: कथा ।
प्रकारैर्‌ विविधैस्‌ तच्च वयं सेवामहे रुचा ॥ ४ ॥
प्रिय एकान्तवासोऽस्ति एतत्‌-सुख-निमित्तत: ।
अस्पृष्टाश्च वयं स्मोऽत्र गुण-दोषापवादत: ॥ धृ ॥

तुका वदति, संवादो मनसो मनसा सह ।
नित्यं भवति, वादश्च आत्मना सह आत्मन: ॥ ५ ॥
प्रिय एकान्तवासोऽस्ति एतत्‌-सुख-निमित्तत: ।
अस्पृष्टाश्च वयं स्मोऽत्र गुण-दोषापवादत: ॥ धृ ॥

( भोजनम्‌ - हरिकथैव भोजनम्‌ इत्यर्थ: )

महाराजस्य पत्‍नी जीजार्या प्रतिदिनं गृ‌हकर्माणि निर्वर्त्य स्वयंपाकं पक्त्वा भोजनसामग्रीं महाराजार्थं गृहित्वा भण्डारापर्वतं गच्छति स्म। महाराजस्य भोजनानन्तरमेव स्वयं भोजनं करोति स्म । परमार्थसाधनायां निमग्ने महाराजे, विदेहावस्थायां तस्य सर्वप्रकारां सेवां जीजार्या करोति स्म। महाराजस्य परमार्थसाधनायां जीजार्याया: विशेषं दायित्वं वर्तते। शरीरश्रमेण परोपकार: , सन्तवचनानां पठनं कण्ठस्थीकरणं च, वाचा विट्‍ठलस्मरणम्‌ , चेतसि च तस्यैव ध्यानम्‌ इत्येवंरूपा साधना अजस्रं प्राचलत्‌ । फलस्वरूपेण महाराजेण नामदेवरायेण सहागत: विट्‍ठल: पण्ढरीराय: स्वप्ने जागरिताय तुकाराममहाराजाय जगदुद्धारार्थं कवित्वस्य प्रेरणां साक्षात्‌ दत्तवान्‌ ।

५. तुकारामकाव्यस्य जलदिव्यम्‌

महाराज: तावत्‌भवसागरात्‌मुक्त: आसीत्‌। अधुना केवलं लोकोद्धारकार्यम्‌ अवशिष्टम्‌आसीत्‌। तेन प्राप्‍त: प्रसाद: अन्यै: सह विभजनीय आसीत्‌। परमात्मन: परेशस्य सन्देश: प्रतिगृ‌हं प्रापणीय: आसीत्‌ ।

तुका वक्ति - सन्देशाय प्रेषितोऽस्मि। भक्तिमार्ग: एष: सुखरूप:।
महाराजस्य कवित्वस्फूर्ति: प्रकटिता अभवत्‌।
लब्धा कवित्वस्फूर्ति: । मनसा धृ‌तौ चरणौ विट्‍ठलस्य ।

महाराजस्य मुखात्‌ अभंगगङ्गा प्राभवत्‌ । भाग्यवन्त: श्रोतार: श्रवणसुखं अनुभवन्ति स्म ।

वक्‍तव्यमेवेति उच्यन्ते वचनानि यदृ‌च्छया
प्रवाहस्वभावेन लीलया वहति गङ्गाजलम्‌यथा ।
भाग्ययोगाद्धि सर्वेषां श्रवणं सुलभं ननु।
कस्तत्र अधिकारस्य चिन्तां कुरुते हि निष्फलाम्‌।

महाराजस्य अभंगेषु श्रुतिशास्त्रस्य नवनीतम्‌, महाकाव्यानां सारश्च प्रस्फुटित अभवत्‌। आळन्दीग्रामे ज्ञानदेवानां मंदिरस्य महाद्वारे कीर्तनं प्रारब्धम्‌। आळन्दीग्रामे वर्तमानस्य रामेश्वरभट्टमहोदयस्य कर्णयो: तुकारामस्य प्रासादिकीवाणी वज्राघातवत्‌पतिता। स: विस्मयचकित: समभवत्‌। "किं एषा गीता भागवतम्‌वा?एषा प्रत्यक्षा वेदवाणी - वेदार्थ: प्राकृ‌तभाषया शूद्रमुखाद्‌अवतीर्ण:" ।

कवित्वं हि तुकाकृ‌तं श्रुत्वाभिज्ञाय च ।
वेदार्थो हि स्फुटं तत्र- तस्य मुखे शूद्रस्य ? न श्रोतव्य: कथञ्चन ।

निषेध्योऽसौ प्रयत्‍नेन न भेतव्यं कथंचन । धिक्कृ‌त्य रामशास्त्रिभि: कथितम्‌भवांस्तावच्छूद्र: । परं भवतां अभंगवाणी वेदार्थं प्रकटीकरोति । तत्र त्वं न अधिकारी । त्वन्मुखात्तस्य श्रवणम्‌अधर्मम्‌आपादयति। केन प्रचोदितोऽसि अस्मिन्‌कर्मणि ?

तुकारामेण झटिति उक्तम्‌ - “न एषा मम वाणी। एषा तु देववाणी एव ।”

कवयामि काव्यम्‌इति कोऽपि वदेत्‌यदि ।
शपे सत्येन शपे- न ममैषा स्वीया वाणी ।
न मे बुद्धियुक्त्या कृ‌तैषा कथञ्चित्‌।
विश्वंभर: मां मुखरीकरोति ।
ईश्वरो मे सहैवास्ति - वसति स: मय्येव हि ।
अज्ञात्वा इव वै अर्थं कवयामि, भवतां कोपकारणम्‌ ।
नामदेवेन सह आगत्य पण्ढरीनाथेन आज्ञप्‍तोऽस्मि काव्यकरणे ।
वक्ति विप्र: कथं नाम जानीयात्‌आज्ञाकरणम्‌ ।
अत स्वयं त्वमेव हि त्यज काव्यं जलेऽचिरम्‌ ।
यदि नारायणस्तत्र रक्षित्वा अर्पयेत्पुन:।
लीलया तर्हि सर्वेषां काव्यं मान्यं भविष्यति ।

काव्यं जले क्षेप्‍तव्यम्‌ । यदि देववाणी तर्हि देवद्वारा तस्य रक्षणं तत्रापि भविष्यति । रामेश्वरशास्त्री तुकारामस्य अधर्मम्‌अधिकृ‌त्य ग्रामाधिकारिणम्‌निवेदितवान्‌ । स: क्रुद्ध: । जनाश्च सन्तप्ता:।

कुपित: ग्रामाधिकारी। कुपिताश्च जना: सर्वे ।
कुत्र गन्तव्यं किं खाद्यं कथं वास: ग्रामे ननु ॥

तुकाराममहाराजेन अभंगपुस्तिका: गृ‌हीता:। शिलासहितास्ता: इन्द्रायणीमध्ये मज्जिता:। पुरा व्यवहारपत्राणि - नाम अर्थ: - जलसात्‌कृ‌तानि अधुना तु अभंगपुस्तिकारूप: परमार्थ: अपि निमज्जित:।

अभंगान्‌मज्जयित्वा तु निग्रहेण स्थितोऽस्म्यहम्‌ ।

तुकाराम: अतीव दु:खित: अभवत्‌। जना: निन्दापरा: अभवन्‌कीदृ‌श: दृ‌ष्टान्त: कीदृ‌शश्च प्रसाद:। सर्वं मिथ्याचरणम्‌ । कोऽस्य देव: कीदृ‌शोऽस्य धर्म:। मन्दिरस्य महाद्वारे शिलायां तुकाराम: सनिग्रहं उपविष्ट:। प्राण: पणीकृ‌त:। निर्बन्ध: स्वीकृ‌त:। त्रयोदशदिनानि व्यतीतानि। देव: न कृ‌पापर:।

सनिर्बन्धं व्यतीतानि त्रयोदश दिनान्यहो ।
कृ‌पां नैव करोषि त्वं कथं मातृ‌पितृ‌रूप: सन्‌ ।

इत: रामेश्वरशास्त्री तुकारामं निषिध्य आळंदीत: प्रस्थाय नागझरीप्रभासमीपं पञ्चवटीम्‌आगत:। सरोवरे स्नानार्थम्‌अवतीर्ण:। तस्य स्नानसमये कश्चित्‌"फकीर:" जलं नेतुं तत्र समायात:। रामशास्त्रिणम्‌“को भवान्‌ ? कुत: समायात:” इत्यादिकं पृ‌ष्टवान्‌ । ’न श्रुणुयात्‌यावनीं भाषाम्‌’ इति विचारेण कर्णौ पिधाय रामशास्त्री जले अवगाहनम्‌अकरोत्‌। तस्य अनेन आचरणेन सिद्धफकीर: क्रुद्ध:। तेन रामशास्त्री शापित:। जलाद्‌बहिरागतमात्रे तस्य शरीरदाह: प्रारब्ध:। फकीरशापात्‌मुक्तिं प्राप्तुं शिष्यसमवेत: शास्त्री आळंदीं प्रतिनिवृ‌त्त:। अजानवृ‌क्षस्य अध: अनुष्ठानं प्रारब्धम्‌।

त्रयोदश्यां रात्रौ बालकवेषेण सगुणरूपेण च भगवान्‌तुकोबारायं मिलितवान्‌ । उक्तवान्‌च “त्रयोदशदिनानि यावत्‌जले स्थित्वा रक्षिता: मया काव्यपुस्तिका:। श्व: ता: जलोपरि आगमिष्यन्ति” इति । देहूग्रामस्था: भाविका: एवमेव दृ‌ष्टान्तेन भगवता प्रतिबोधिता:। दृ‌ष्टान्तस्य प्रत्यक्षीकरणाय सर्वे भक्ता: इंद्रायणीतीरं प्राप्ता:। अहो आश्चर्यम्‌। सर्वा: पुस्तिका:स्वयमेव जलप्रवाहे जनै: दृ‌ष्टा:। अवगाहननिपुणै: जलम्‌प्रविश्य उधृ‌तास्ता:। पुस्तकाणां जलस्य स्पर्शोऽपि नासीत्‌। सर्वै: जयजयकार: कृ‌त: । साक्षात्‌परमेश्वर: स्वकारणात्‌कष्टं प्रापित: इति भावनया तुकाराम: भृ‌शं दु:खित अभवत्‌ ।

प्रभो ! अन्यायम्‌आचरितं परीक्षा तव भो: कृ‌ता ।
जनापवादान्मुधा चित्तं प्रक्षोभं प्रापितं ननु।
जनवादं निराकर्तुं कगर्जा रक्षिता: पुन:।
तुका वक्ति भक्तार्थं हि वचनं परिपालितम्‌।

तत्र आळन्द्यां ज्ञानदेवमहाराजेन रामेश्वरशास्त्री उक्त : “भवता निन्दया तुकाराम: परिपीडित: तस्य फलं एष दाह: । अस्य उपाय: एक एव इत: देहूग्रामं गत्वा तुकाराम: द्रष्टव्य:” इति । रामेश्वरशास्त्री देहूं प्रति प्रस्थितोऽस्ति इति ज्ञात्वा तुकारामेण एक: शिष्य: अभंगेण सह आळंदीं प्रेषित: । तं पठित्वा रामेश्वरभट्टानां देहदाह: शान्त: अभवत्‌ ।

चित्ते शुद्धे शत्रु: मित्रत्वमेति । न व्याघ्र: अत्ति सर्पं कदाचित्‌।
दु:खं यत्तद्‌सौख्यफलं स्यात्‌वह्निज्वालाश्च शीतला:॥

रामेश्वरभट्ट: स्वानुभवं एवं कथयति -

अन्तरङ्गे कृ‌ते द्वेषे शरीरं दाहदु:खभुक्‌।
तुकारामस्य सङ्गेन देह: शीतलतां गत:॥

रामेश्वरभट्ट: तुकारामस्य दर्शनार्थं देहूम्‌आगत्य कथाकीर्तनादिकं श्रोतुं तत्रैव न्यवसत्‌ । रामेश्वरभट्टस्य शापमुक्तिवृ‌त्तान्तं श्रुत्वा अनगडशह: विषादम्‌ अनुभूतवान्‌ । तुकारामस्य पीडायै देहूं प्राप्त:। तुकारामस्य गृ‌हं गत:। मुष्टिमतं पिष्टं याचितवान्‌ । महाराजस्य कन्यया अत्यल्पं पिष्टं भिक्षापात्रे दत्तम्‌। तदेव वृ‌द्धिं गत्वा क्षणात्‌भिक्षापात्रं प्रपूर्य अध: पतितम्‌ । सिद्धस्य तप:सामर्थ्यं तुकारामस्य द्वारि विलयं गतम्‌ । अनगडशह: भक्तिभावेन तुकारामम्‌अभजत्‌भजनकीर्तनं श्रोतुं तस्य सन्निधौ अतिष्ठत्‌, दार्शनिकज्ञानं पाण्डित्यं ऋ‌द्धि-सिद्धी च हरभक्तिं शरणं आगता: । ’तुकारामस्य अभङ्गा जले क्षिप्ता अपि अक्लिन्ना अतिष्ठन्‌’ इति वृ‌त्तम्‌सर्वत्र प्रसृतम्‌अभूत्‌ । तेन हि लोकापवाद: परिहृ‌त:। अभंगवाक्‌ अविनाशिनी भङ्गरहिता, सार्थनामा सञ्जाता । परमात्मन: सगुणदर्शनेन तुकारामस्य कथाकीर्तनस्य मार्ग: प्रशस्ततर: सञ्जात:।

६. महाराज: संन्यासीद्वयञ्च

सर्वत्र रामनाम । नाचरति कोऽपि कर्म।

महाराजस्य कीर्तनानि महता उत्साहेन प्रचलितानि । तस्य लोकोद्धारस्य जनजागरणस्य च प्रमुखं साधनं कीर्तनमेव आसीत्‌ ।

न्यूनीकृ‌त्वा साधनानि कीर्तनेन सुलभ: स:।

भगवान्‌ श्रीकृ‌ष्ण: मथुरायां जनिभलभत किं तु प्रेमसुखं उपभुक्तं गोकुलवासिभि: तथैव महाराजस्य जन्म देहूग्रामे अभवत्‌ परं भक्तिप्रेमसुखं प्राप्तं लोहगावग्रामस्थै:। लोहग्राम: महाराजास्य मातामहगृ‌हम्‌। तत्रैव वारंवारं महाराजस्य कीर्तनानि भवन्ति स्म। एकदा द्वौ संन्यासिनौ महाराजस्य कीर्तनं श्रोतुं उपस्थितौ। ताभ्यां दृ‌ष्टम्‌- स्त्रीपुरुषा: सममेव तल्लीनतया कथाकीर्तनश्रवणं कुर्वन्ति, उच्चनीचा: ब्राह्मणशूद्रा: च विस्मृ‌त्य परस्परभेदं अन्योन्यं नमस्कुर्वन्ति। अस्तंगतोऽस्ति भेदभाव:। एतत्सर्वं अनुभूय तुकारामस्य निन्दां ब्राह्मणानां च निर्भत्सनां कृ‌त्वा अभणताम्‌ - कर्मभ्रष्टा: यूयम्‌ । शास्त्रोक्तं कर्ममार्गं विहाय भवद्भि; नामस्मरणमार्ग: स्वीकृ‌त:। तौ तस्मात्स्थानात्‌ निर्गत्य अस्य प्रकरणस्य अन्तिमं निर्णयं न्यायसम्मतं प्राप्‍तुं दादोजी- कोण्डदेवं प्रति गतौ ।

न्यायं कुरुत न्यायं वदत । निर्लज्जानामेषाम्‌।
सर्वत्र गर्जति रामनाम। नाचरति कोऽपि कर्म।

तौ तत्र आक्षिप्तवन्तौ – “लोहग्रामस्थै: परित्यक्तानि धर्मकार्याणि । ते शूद्रस्य वशं गता: - रामनामपरायणा: सर्वे । अत्र अधरोत्तरं भवान्‌ एव पश्यतु ।” सैनिकान्‌ प्रेषयित्वा दादोजि: ब्राह्मणान्‌ शतं दण्डितवान्‌ । तुकारामं लोहग्रामस्थान्‌ च आहूतवान्‌ । भक्तजनै: सह तुकाराम: पुण्यपतनं संगमस्थानं आगत: कीर्तनं च प्रारब्धवान्‌ । तुकारामागमनवृ‌त्तान्तं श्रुत्वा अखिला पुण्यनगरी प्रधाविता महाराजस्य दर्शनार्थं श्रवणार्थं च । दादोजि: अपि कीर्तनश्रवणे मग्न:। तौ संन्यासिनावपि तथैव श्रवणमग्नौ । अकस्मात्‌ ताभ्यां तुकारामस्य देहे परब्रह्मस्वरूपं साक्षात्कृ‌तम्‌ । तेन प्रभावितौ तौ झटिति तुकारामस्य पुरत: साष्टांगप्रणिपातं कृ‌तवन्तौ । दादोजि: अस्य वर्तनस्य स्पष्टीकरणं प्रार्थितवान्‌ “भवद्दृ‌ष्ट्या यद्‌ अयुक्तम्‌ तद्‌ स्वयं भवन्तौ एव कथं आचरत:?” उभाभ्यां निवेदितम्‌ - “कीर्तनावसरे तुकारामे नारायणं पश्याव:” इति । स्वयं दादोजिना महाराजस्य सम्मान: अनुष्ठित:। संन्यासिनौ नगरात्‌ बहि: निष्कासितौ ।

७. हठपीडित:

बीड्मण्डलस्थ: अधिकारी देशपाण्डे पश्चिमे वयसि पाण्डित्यप्राप्तौ उत्सुक: आसीत्‌ । अस्मिन्‌ वयसि अध्ययनकण्ठस्थीकरणादिद्वारा पाण्डित्यं न संभवति इति ज्ञात्वा ज्ञानेश्वरमहाराजस्य कृ‌पाप्रसादं प्राप्‍तुं सनिग्रहं स: तत्र उपविष्ट: । ज्ञानेश्वरेण स: उक्त:- त्वं स्वेच्छापूरणार्थं देहूग्रामं गच्छ । प्राप्स्यसि तत्र समाधानं इति । तत: स: देहूं प्राप्‍त: ।तस्मिन्‌ समये तुकाराममहाराजेन एकत्रिंशत्‌ अभङ्गा: रचिता: । तत्र नैकेषु अभङ्गेषु आदौ तावत्‌ पांडुरंगस्य कृ‌पाप्रसादार्थं दीना याचना आर्ततया कृ‌ता । केचन अभङ्गास्तत्र उपदेशपरा: सन्ति तेषु तुकारामस्य ज्ञानं , विचारपद्धति: उपदेशसरणि: तथा च तत्त्वज्ञानं इत्येतेषां सम्यक्‌ परिचय: भवति । देशपाण्डेभक्तस्य इच्छां भगवते निवेद्य भवता एव तस्य समाधानं कृ‌त्वा स्वस्य ईश्वरत्वं रक्षणीयम्‌ इति विज्ञाप्ति: कृ‌ता ।

वचनं विना हि जानासि भावं जीवस्य उत्कटम्‌ ।
समाधेयो देशपाण्डे स्वस्य सत्त्वमनुस्मरन्‌ ।

हठपीडिताय उपदेश:

अलमधुना ग्रन्थ-पुस्तकपठनेन । अधुना एकमेव आचरणीयम्‌-भगवत्प्राप्‍त्यर्थं भगवत: भक्ति: । वार्धकं प्राप्तोऽसि अधुना किमर्थं विलम्बायसे इति ।

देहभावं हि विस्मृत्य अर्चनीयो हरिस्सदा ।

गोविन्दनामग्रहणेन भवतु ते परमकार्यम्‌ तेन हि त्वमेव स्वयं गोविन्द: भविष्यसि ।

गोविन्द! गोविन्द! मनस: भवतु ते छन्द: ।
गोविन्द: ते भवेत्‌ काय: भेदो न स्यात्‌ मनागपि ।

सुखेन भोक्तव्यम्‌ परमात्मन: चिन्तनं च करणीयम्‌ । हरिकथा मातास्ति , समाधिरस्ति सुखस्य । श्रान्तानां छाया सा एव तदेव विश्रमस्थानम्‌ ।

सुखसमाधि: हरिकथा सच्छायं विश्रम: श्रान्तानाम्‌ ।

इतरै: अवश्यं उपवासादिसाधनानि उपयोक्तव्यनि । विट्‍ठलस्य दासेन चिन्तां विहाय श्रद्धाबलेन भगवद्भजने रन्तव्यम्‌ । महाराजस्य अमूल्यम्‌ उपदेशं धिक्कृ‌त्य प्रतिगत: ।

देवस्य अभङ्गा: - महाफलं नूनं धिक्कृ‌तं वराकेण-दुर्भाग्यवशात्‌ ।

८. छत्रपति: शिवराय: तुकारामश्च

तुकारामस्य कीर्ति: शिवरायस्य कर्णपथं गता । तेन दीप-छत्र-वस्त्र-अश्व-धन-रत्नादिकं सेवकहस्तेन तुकाराममहाराजाय प्रेषितम्‌ । तेन न तत्‌ स्वीकृतम्‌ । अभङ्गचतुष्टयेन सह तत्सर्वं वस्तुजातं प्रतिप्रेषितम्‌ । तुकाराम: देवं अवदत्‌-

यदेव न रोचते मह्यम्‌ तदेव पूरयसि ।

- अपि मम परीक्षार्थम्‌? छत्राश्वादिसम्पत्‌ न मे मोहकारिणी भविष्यति । न मे तया किमपि कार्यम्‌ । किमिति माम्‌ अस्मिन्‌ मायाजले पातयसि? तुकारामस्य नि:स्पृ‌हतया महाराज: अत्यन्तं चकित: अभवत्‌ । वस्त्रभूषणालङ्कारद्रव्यजातं गृ‌हीत्वा स्वयं महाराज: सेवकै: सह लोहगावं प्राप्‍त: । राजद्रव्यं दृ‌ष्ट्वा तुकाराम: अगदत्‌-

कीदृ‌शोऽयं निधि: राजन्‌ अस्माकं विठ्ठल: पर: ।
उदारं भवन्तं मन्ये- प्राप्‍त: स्पर्शमणि: पुन: ।
तुका वक्ति हि अस्मदर्थं धनं गोमांससदृ‌शम्‌ ।

क्षुद्रा पिपीलिका राजा च समानौ अस्मदृ‌ष्ट्या । सुवर्णं मृ‌त्तिकयोरपि अभेद: ।

पिपीलिकारावौ जीवरूपेण समानौ । सुवर्णमृ‌त्तिके मूल्येन समाने ।

धनमानादिना अस्माकं सुखं न भविष्यति । । भवता परमेश्वरस्य नामस्मरणं कर्तव्यम्‌ । श्रीहरे: सेवकत्वेन वर्तितव्यम्‌-तदेव अलम्‌ ।

प्रमोदाय हि अस्माकं मुखे भवतु भगवन्नाम ।।१॥
दास: श्रीहरे: स्वयं भूया: - तदेव इप्सितं मम ।।२॥

तुकारामस्य उपदेशेन प्रभावितेन राज्ञा राज्यत्यागपूर्वकं तुकारामस्य भजनकीर्तनश्रवणं प्रारब्धम्‌ । तदा तुकारामेण महाराजाय तस्य सेवकेभ्य: च क्षात्रधर्म: उपदिष्ट: ।

उपदेश: कर्म अस्माकम्‌ क्षात्रधर्म: भवत्कृ‌ते ।
युद्ध प्रसङ्गे सेवकै: प्राणविनिमयेन रक्षणीय: स्वामी ।

शरगोलिकाप्रहारा: सैनिकै: लीलया सोढव्या: । शत्रुं वञ्चयित्वा राज्ञ: आत्मनश्च रक्षणं सेवकै धैर्येण पराक्रमेण च करणीयम्‌ । शत्रुस्वं हरणीयम्‌ । स्वस्थानं अरिणा अनभिज्ञातं भवितव्यम्‌ । स्वामिरक्षणार्थं प्राणा: पणीकरणीया: । सैन्यबलं सेवकबलमेव राजानं त्रैलोक्ये समर्थं कारयति ।

तुकारममहाराजेण शिवराय: आशीर्वचोभि: विसर्जित: । महाराज: सैनिकाश्च तुकारामस्य उपदेशं स्वीकृ‌तवन्त: । तमनुस्मृ‌त्य आचरितम्‌ सर्वै:। महाराजस्य आशीर्वचोभि: शिवराय: सामर्थ्यसम्पन्न: अभवत्‌ ।

९. विट्‌ठल: एव: गुरु:

मम विठ्ठलस्य कीदृ‌श: प्रेमभाव: -देव: स्वयं जात: गुरु: मम |

ज्ञानमार्गे गुरो: विशेषा महती विद्यते तथा भक्तिमार्गे नास्ति |

मेघवृ‌ष्टिवत्‌ करणीय: उपदेश: | सर्वेषां समान: |

एवं चिन्तयत: महाराजस्य अद्वैते श्रद्धा नासीत्‌ |

अद्वैतवचनं न मे समाधानम्‌ |

परमेश्वरस्य सगुणरूपे बद्धमानस: महारज: न कदापि गुरं शरणं गत: |

न रोचते मे अद्वतं अतो न मे गुरु प्रार्थ्य |
गच्छन्‌ जन: लभते एव मार्ग: | गुरु अवरोध: भक्तिमार्गे |
श्रेष्ठं जनं आचारशीलं- दृ‌ष्ट्वा अनुकरोति मध्यम: |
विप्रवेषेण आगत्य देय: अनुग्रह: तुकारामाय |

स्वप्ने तुकाराममहारै: दृ‌शःटम्‌- इन्द्रायण्यां स्नात्वा देवालयं गच्छद्भि: तै: एक: ब्राह्मण: दृ‌ष्ट: नमस्कृ‌तश्च | संतुष्टेन तेन हस्तं मस्तके निधाय ’रामकृ‌ष्ण हरि:,’ मन्त्र: उपदेशित: | आत्मन: गुरुपरम्परा च निवेदिता | इति माघमासे शुक्लपक्षे दशम्यां गुरुवासरे एतद्‌ घतितम्‌ |

गङ्गास्नानमार्गे प्रापित: गुरु: येन कर: शिरसि धृ‌त: दृ‌ढ: |
राघवचैतन्य: केशवचैतन्य: क्रम: एष परम्पराया: |

’बाबाजी’ स्वनाम कथितं हि तेन मन्त्रश्च श्रावित: ’रामकृ‌ष्ण: हर:’ माघे शुक्लदशम्यां गुरुवासरे शुभे कृ‌तोऽङ्गिकार: तुका वक्ति |

तुकारममहाराजेन कोऽपि मन्त्रार्थं न याचित: | स:वक्ति- न मया याचितो मन्त्र: स्थित: दृ‌ढं उररीकृ‌त्यात्मानम्‌ |

महाराज: उद्घोषयति- न जनामि कर्णे मन्त्रदानम्‌ न वा एकान्ते ज्ञान-दानम्‌ | यो देव: केनापि न दृ‌ष्ट: तं दर्शयितुं समर्थोस्मि |

न मन्त्रदानं न एकान्तज्ञानम्‌ | अदृ‌ष्टपूर्वम्‌ देवं दर्शयाम: सुखं ध्रुवम्‌ |

१०. महाराजानां बोध: उपदेश:

प्रपञ्चे परमेश्वरस्य अधिष्ठानं विना , तद्विषये ममत्वं विना च जना: सुखिन: न भवेयु: इति अस्ति तेषां दृ‌ढविश्वास: ।

आदौ तावत्‌ परमेश्वर: आत्मीय: करणीय: ।
तेन विना न स्याज्जिवस्य सुखम्‌ ।

पश्यत मम स्वानुभवम्‌-

पश्यत मे स्वानुभवम्‌- स्वकीय: कृ‌तो मे देव:।
वादयति यद्‌ यथा-भवत्येव तदुत्तरम्‌ ।।

कीदृ‌श: स: अनुभव: इति चेत्‌-

इदमेवानुभूतम्‌ -भाग्यभोग्य: भक्तिभाव: ।
अधमर्णीकृ‌त: भगवान्‌ रात्रंदिनसहचर: ।

दैवलीलया तुकारामानां प्रपञ्च: शून्यत्वं गत:। दैवलीलया एव अध्यात्मक्षेत्रे सर्वोच्चं गौरीशङ्करं अपि प्राप्तम्‌ । दैवं अनिर्बंन्धं , केनापि बन्धनेन न बध्यते।

रज्जु: प्रेमसूत्ररूप: येन नूनं नीयते हरि: ।

तत्‌ प्रभुप्रेम प्रभुस्मरणेन प्राप्यते ।

स्मर्तव्यं नाम अस्माभि: दातव्यं प्रेमैव भवता ।

सन्तसज्जनानां मन:सु प्रेमभावनाया: वैपुल्यं विद्यते ।

सन्तानां ग्रामे प्रेम बहुसारम्‌। नास्ति पापदु:खं लेशतोऽपि ।

सन्तानां उद्यमे उपदेशापणे प्रेमसुखयो:आदनप्रदानं प्रचलति ।

सन्तानां व्यवहारे उपदेश: विनिमये।

अन्यथा किं भक्तिप्रेमसुखं इति ज्ञानिन: पण्डिता: मुक्ताश्च नावगच्छन्ति नापेक्षन्ते च।

प्राज्ञवाचकपण्डिता नैव जानन्ति प्रेमभक्तिसुखम्‌।

प्रेमबन्धेन समाज: परस्परसंलग्न: भवति । प्रेम्णा निजपरभाव: विलयं याति । प्रेम्णा जीवनं सुखसमृ‌द्धं भवति । दिव्यप्रेमलाभ: प्रभुस्मरणेन भवति सन्तसन्निधौच भवति । प्रेम्णा दु:खं सुखे परिणमति। मनुजजीवनं परिवर्तितं भवति ।

।। उपदेश: ।।

उपदेश: न देय: स्यात्‌ इतरस्य वृ‌था पुन: ।
अधुना केवलमेतावान्‌ उपदेश: भवत्कृ‌ते ।
नैव नाश: जीवनस्य कर्तव्य: अविचारत: । मूल्यवत्‌ जीवनं नित्यं गलत्यविरतं पुन:।
तुका वक्ति हितार्थाय कार्य: व्यवहार: सदा ।
स्वहितार्थं जागृ‌तो य: धन्यौ पितरौ तस्य वै ।
कुले कन्यापुत्रा: सात्त्विका हि यस्य तेन प्राप्‍त: देव: समाधानम्‌ ।
श्रवणं गीताभागवतस्य चिन्तनमखण्डं विट्‍ठलस्य ।
चिन्तनं देवस्य हिताय सर्वथा कृ‌त्वा मन: शुद्धं भावबलात्‌ ।
तुका वक्ति अल्पस्तावत्‌ कार्य: परोपकार: । सन्‍तसङ्‍ग:।

दुर्जनानां न गन्तव्यं समीपं सज्जनानां हि गन्तव्यं प्रयत्नत:।

पतितोद्धार: सन्तकार्यम्‌ ।
त्यक्त्वा अधमसङ्गम्‌ सेव्यतां सन्तसज्जना:।

अर्जयित्वा धनलक्ष्मीं उत्तमव्यवहारेण , व्ययीकरणीया साक्षीभावेन ।

महाराजस्य उपदेश: सदाचारपर:, सुविचारधिष्ठित: समतायुत: च आसीत्‌ । प्राणिमात्रस्य कल्याणार्थं केनापि सह संघर्षं कर्तुमपि तुकाराममहाराज: सज्ज: भवति स्म ।

न संकोच न वा लज्जा न ज्येष्ठे न वा युनि ।
तीक्ष्णोत्तराणां बाणा वै सन्तु हस्ते सदा तव ।
तुका वक्ति न भेतव्यं न हर्तव्यं-सुखापाय: अग्रे वर्तते एव ।

११. तुकाराममहाराजस्य अनुयायिन: शिष्या: च

प्रगतिपरं कार्यमिदम्‌.

अभङ्‌रसवाहिनी

पंडित महादेव पांडुरंग ओक

- १ -

स्थितोऽस्म्यहं तव द्वारे भिक्षार्थी दैन्यभाजनम् ।
देहि भिक्षां स्वभक्तिं मे दानशूराविलम्बितम् ॥ १ ॥

यातायातानि मा कार्षं क्लेशभारं वृथा वहन् ।
सेवादानं विना दत्तं दानं सात्विकमुच्यते ॥ २ ॥

पंडित महादेव पांडुरंग ओक

(०९/१०/१८७४ - २३/०३/१९२३)

- २ -

वेद किं बालकोऽवस्थां निजमातुः कदाचन ।
वहते सकलां चिन्तां सा पुनस्तस्य सर्वदा ॥ १ ॥

बालकस्य जनन्याश्च मिथः सम्बन्ध ईदृश: ।
न शिलालाबुताराय तार्यते सा त्वलाबुना ॥ २ ॥

वेष्टयंश्चन्दनं भोगी निर्वृतोऽपि न तत्समः ।
स्पर्शोपलः स्वयं भूत्वा मामयस्त्वं नय प्रभो ॥ ३ ॥

- ३ -

दयालो विद्यते देव हस्तस्ते मम मस्तके ।
तवापि पादयोश्चित्तं सक्तं मम निरन्तरम् ॥ १ ॥

इत्थं संगतयोर्जातः सम्बन्धो नौ परस्परम् ।
अहं तव वशे वर्ते त्वं ममासि वशंवदः ॥ २ ॥

विधेया ते मया सेवा कृपा कार्या त्वया मयि ।

- ४ -

वदान्य विश्वंभर पाण्डुरङ्ग कुरूष्व कर्णे मम वाचमेताम् ।
दासास्त्वदीयाः किल वर्णिताः स्मो युक्तं न तेऽस्मानधुना विहातुम् ॥ १ ॥

त्वं पापिनां पावन इत्यवैमि को वा त्वदन्यो मम वेद दोषान् ।
लोभेन मोहेन च बाधितोऽहम्-- इत्यत्र को वा किल दूषणीयः ॥

कृतानि कामं गुरुपातकानि मया दयालो भुवि तानि तानि ।
परं शरण्यं चरणद्वयं ते त्राणाय मे स्याच्छरणागतस्य ॥ ३ ॥

- ५ -

न चेदहं भोः पतितोऽभविष्यं त्वं पावनः कस्य कुतोऽभविष्यः ।
अतो ममादौ पतितस्य नाम ततो दयाब्धे तव पावनस्य ॥ १ ॥

पाषाणतां स्पर्शमणिर्दधानो लोहस्य योगान्महिमानमेति ।
तद्गौरवे कल्पतरोर्निदानं यद्याचकैर्याच्यत ईप्सितं सः ॥ २ ॥

- ६ -

न स्वान्दोषान्न जानामि दुर्निवारं तु मे मनः ।
तन्निरुध्य दयासिन्धो नाम सत्यं निजं कुरू ॥ १ ॥

सुवचं दुष्करं कर्म विषयाधीनचेतसः ।
यथा तथास्मि ते दासो मौदासीन्यमुपाश्रय ॥ २ ॥

- ७ -

अङ्गीकृतः स्यां भवतेति देव न जायते नाम मतिर्मदीया ।
लज्जास्पदं स्यादुभयोरपीदं देवस्य ते भक्तिमतस्तथा मे ॥ १ ॥

एकान्तमाश्रित्य यदा कदापि चलं न चित्तं स्थिरतामुपैति ।
मत्पादयोर्गौरवशृङ्खलेयं हा स्नेहपाशश्च गले चकास्ति ॥ २ ॥

सुस्थं शरीरं विषयोपभोगैः भोज्ये कदन्ने न रूचिर्मुखस्य ।
एतेषु दोषेषु समाश्रितेषु निद्रा तथालस्यमुपैति वृद्धिम् ॥ ३ ॥

- ८ -

विषयाभिमुखं धावति मुहुर्मुहुर्लोलुपं मनः सुतराम् ।
तत्तु निवृत्तं कुरूते ततः स एको बली च शूरश्च ॥ १ ॥

प्रहरेद्यदि सहसेदं का भविता ते दशा न जानामि ।
बहवोऽनेन हि सुधियः प्रतारिता अद्य यावदिह जगति ॥ २ ॥

- ९ -

यद्वयं पापिनो देव तद्भाग्यं परमं तव ।

अस्मदुद्धारहेतोर्हि जातस्त्वं नामरूपधृत् ॥ १ ॥

निराकारो भेदशून्योऽ भविष्यः परमार्थतः ।

तदाऽमंस्यत को नु त्वां जगदुद्धरणक्षमम् ॥ २ ॥

अन्धकारेण दीपस्य प्रकाशः शोभतेतराम् ।

माणिक्यं प्रभयोपेतं भवत्याधारयोगतः ॥ ३ ॥

वैद्यः प्रकाशतां याति रोगस्यैव चिकित्सया ।

सत्त्वासत्त्वपरीक्षाऽस्य सर्वतोऽनामये कुतः ॥ ४ ॥

अमृतस्य महार्हत्वं प्राप्तं विषगुणेन वै ।

हीनं पित्तलमित्येव गौरवं याति काञ्चनम् ॥ ५ ॥

एवं देव त्वमस्माभिर्देव त्वमधिरोपितः ।

भूत्वा पापतरैः सर्वेरिति वेदितुमर्हसि ॥ ६ ॥

- १० -

सेवमाना न याचन्ते ये किंचिज्जगदीश्वरम् ।

सेवायां सादरस्तेषां स सदेत्यवधार्यताम् ॥ १ ॥

निर्यातयत्यृणं तेषां दीनरूपः शनैः शनैः ।

तेभ्यो न क्षणमप्येव पार्थक्येनावतिष्ठते ॥ २ ॥

देवे भक्तिः परा यस्य मानसे विद्यतेतराम् ।

देव एव स विज्ञेयो देवस्यापि नरोत्तमः ॥ ३ ॥

- ११ -

मातैव कृन्तेद्यदि कण्ठनालं बालं ततोऽस्या बत को नु रक्षेत् ।
न वेत्सि नारायण किं त्वमेतद् दीनं वृथा मामतिसंदधासि ॥ १ ॥

अलं भयेनेति वदन् स्वयं चेद् हिंस्यात्तदा को नु भवेत्सहायः ।
धनं जिहीर्षेन्नृप एव यत्र निवारयेत्तत्र जनो नु कोऽन्यः ॥ २ ॥

मनो नितान्तं बत चञ्चलं मे त्वमेव शक्तोऽसि नियन्तुमीश ।
स्थिरं न कुर्या यदि सूत्रधार तदा वशे मे न कदापि तिष्ठेत् ॥ ३ ॥

- १२ -

जीवन्ति जीवाः किल जीवनेन मीना विना तेन बत म्रियन्ते ।
सर्वस्य कामं प्रिय एव भानुर् न तं विना जीवति पङ्कजं तु ॥ १ ॥

न प्रेमपात्रं न शिशुः परेषां माता सचिन्ता तु विशेषतोऽस्मिन् ।
यस्यास्ति भावो हृदि यादृश हि तस्यान्तिके तादृश एव देवः ॥ २ ॥

- १३ -

कथं न्वहो त्वं किल वीक्षितोऽभूः पुण्यात्मना गोपगणेन पूर्वम् ।
दिदृक्षया भोस्तव तादृशस्य जीवो मदीयो भृशमुत्सुकोऽयम् ॥

- १४ -

कदा नु लाभस्तव दर्शनस्य कीदृक् सुखं तज्जनितं भवेन्नु ।
भो दर्शनं तेऽननुभूय साक्षात् कथं नु विन्देय परं सुखं तत् ॥ २ ॥

प्रतिक्षणं दर्शनकामुकं मां परिष्वजेथा इति भावयामि ।

- १५ -

यत्पदं चिन्तनीयं ते मदधीनं तदस्ति भोः ।
तत्र प्रेम तु दातव्यं त्वयैव कृपया विभो ॥ १ ॥

करुणायाचनं नाम याचकस्य परो गुणः ।
इदमेव व्रतं दातुर्नाम रक्ष्यं यदात्मनः ॥ २ ॥

तिर्यगङ्केशयो मातुः स्तने लगति बालकः ।
मातापि तं दयोपेता स्तनं पाययते निजम् ॥ ३ ॥

कच्छपीव शिशून्देव मां पुषाण कृपादृशा ।
पालने सर्वजन्तूनां सूत्रधारस्त्वमेव हि ॥ ४ ॥

- १६ -

रूपं ध्यास्यामि ते देव नाम गास्यामि गौरवात् ।
नान्यत्किंचिद्विधास्यामि मनसा वचसापि च ॥ १ ॥

पादो द्रक्ष्यामि चक्षुर्भ्यां वक्ष्यामि शिरसादरात् ।
इतोऽन्यन्न करिष्यामि कार्यं किमपि सर्वथा ॥ २ ॥

श्रोष्यामि किल कर्णाभ्यां तवैव गुणगौरवम् ।
इदानीमलमन्येषां सोत्कण्ठं श्रुतया गिरा ॥ ३ ॥

करेणोपचरिष्यामि पद्भ्यामेष्यामि तेऽन्तिकम् ।
त्वां विहाय गमिष्यामि नान्यत्र क्वापि जातुचित् ॥ ४ ॥

धास्यामि चरणोपान्ते जीवमेतं तव प्रभो ।
अन्यस्मै किल किं कस्मै दास्याम्यन्यद् दयानिधे ॥ ५ ॥

- १७ -

दाता नारायणः साक्षात् अहो भोक्ता स एव च ।
ब्रुवतः कोऽवकाशोऽत्र लब्धं भुक्तं मयेति तत् ॥ १ ॥

चक्षुभ्यामीक्ष्यते यद्धि तद्रूपं भासते मम ।
नादोऽत्र श्रूयते यावान् स गोविन्दमयोऽखिलः ॥ २ ॥

भूतानां यत्परित्राणं सा दयेति निगद्यते ।
दलनं कण्टकानां च दयैव किल तत्त्वतः ॥ १ ॥

शास्त्रण्यालोच्य सर्वाणि धर्मं नीतिं तथैव च ।
कृत एष मया सम्यक् सारासारविनिश्चयः ॥ २ ॥

उन्मत्तेनाविचायैवं छन्दतो यद्विधीयते ।
पापनाम्ना तदेवेह जगति व्यपदिश्यते ॥ ३ ॥

अहो आत्मानमायास्य ग्रहीतव्यं पुनः पुनः ।
जन्म धर्मस्य रक्षार्थं देवेनापि महीतले ॥ ४ ॥

- १८ -

तृषितानां तृषाशान्तिर्यस्य पानेन जायते ।
न तद्भागीरथीवारि स्तोकांशेनापि हीयते ॥ १ ॥
सिद्धिर्मनोरथानां मे जायतां करूणानिधे ।
उदाराणामुदारस्त्वमल्पैव मम वासना ॥ २ ॥
पश्यन् कृपाकटाक्षैर्मां साहाय्यं कुरु मे प्रभो ॥

- १९ -

दृशा हीनः स्वयं सर्वान् मनुतेऽन्धाञ्जनानिह ।
रुचिलोपे तथा रोगी मिष्टान्नं मन्यते विषम् ॥ १ ॥
नात्मना यः शुचिस्तस्य सर्वत्राशुचिता ननु ॥

- २० -

भाग्यशाली दरिद्रो वा पिता मेऽस्तीति बालकः ।
नैव वेद करे दातु - मस्ति वा तस्य नार्थितम् ॥ १ ॥
वस्तुदर्शं याचतेऽसौ परिरम्भणपूर्वकम् ।
हृदयान्तर्गतं भावं ज्ञातुमर्हसि मे प्रभो ॥ २ ॥

- २१ -

तृप्तायां गर्भिण्यां तृप्यति गर्भोऽपि किं न नामास्याः ।
वैष्णवतोषे विहिते तुष्यति विष्णुः सुखेनैव ॥ १ ॥
पुत्रस्य विजयलाभे पितापि सुखमश्रुते नाम ।
अमृतस्य सेवनेन हि शाम्यति तृष्णा रुजा चापि ॥ २ ॥

- २२ -

भृङ्गः परिमलं भुङ्क्ते न सा कुमुदिनी पुनः ।
नावैषि त्वं निजं नाम वयं तत्सुखकोविदाः ॥ १ ॥
तृणं भुङ्क्ते स्वयं माता वत्सस्तु मधुरं पयः ।
यस्य यद्विद्यते नाम न स भोक्तुं तदर्हति ॥ २ ॥
शुक्तिगर्भे स्थिता मुक्ता परभोगाय कल्पते ॥

- २३ -

बीजोदरोद्भवो वृक्षो बीजं वृक्षाग्रसंभवम् ।
त्वमहं च तथा देव नूनमन्योन्यसंश्रयौ ॥ १ ॥
जले स्थितिस्तरङ्गाणां अङ्गभूतास्तु तस्य ते ।
बिम्बं च प्रतिबिम्बं च लीयेते स्वीय आत्मनि ॥ २ ॥

- २४ -

तावद्भीतिभृतोऽभूम यावद्देहाभिमानिनः ।
देहबुद्धौ तु नष्टायां त्राता नः सर्वथा हरिः ॥ १ ॥
स्वीय एवाखिलो देशः कालस्यावसरोऽत्र कः ।
स्मृते नाम्नि समर्थस्य किं वृथा चिन्तयानया ॥ २ ॥
हरिणा जीवितं सर्वं एवं सुखमयं कृतम् ॥

- २५ -

चिपटो दर्पणाद्भीतो निगूहति मुखं ह्रिया ।
विद्यते यस्य यच्छिद्रं तत्तस्यारुंतुदं सदा ॥ १ ॥
निशि हृष्यन्नपि स्तेनः शशिनं नाभिनन्दति ।
अहो भाग्यविहीनानां जनानामीदृशी दशा ॥ २ ॥

- २६ -

गुडेन यदि कार्यं ते लभ्येन वणिजो गृहे ।
पृष्टया तस्य किं जात्या कुलेन च निगद्यताम् ॥ १ ॥
किं रूढावकरे त्याज्या तुलसी स्थानदोषतः ।
अभक्ष्यं जक्षितीत्येव गोदुग्धं किं न सेव्यते ॥ २ ॥
ग्राह्यं पनसतो बीजं कवचं त्याज्यमेव तु ॥

- २७ -

वृतिः कथं नु कार्येति चिन्तां वहसि सर्वदा ।
आत्मनः श्रेयसे नूनं घटसे न मनागपि ॥ १ ॥
जननीजठरेऽपि त्वं रक्षितोऽसि दयालुना ।
चातकेभ्यो ददद्वारि चिन्तां वक्ष्यति ते हरिः ॥ २ ॥
खगान्वनचरांश्चासौ कदापि किमुपेक्षते ।
प्रपन्नं श्रद्धयोपेतं श्रीपतिर्न विमुञ्चति ॥ ३ ॥

- २८ -

नैव मानेन मे कार्यं सुखलेशो न मे ततः ।
किं करोमि जनस्त्वेष माननान्न निवर्तते ॥ १ ॥
अहो सुखोपचारेण प्लुष्यत्यङ्गमिदं मम ।
मिष्टान्नं भोजने दत्तं विषतुल्यं विभाति मे ॥ २ ॥
गौरवं वर्ण्यमानं मे न श्रोतुमपि पार्यते ।
श्रवणेनान्तरात्मा मे व्याकुलत्वमुपैति च ॥ ३ ॥
त्वां प्राप्स्यामि यया कांचित् तां कलां देव शाधि माम् ।
अनुधावितयेदानीं किं वृथा मृगतृष्णया ॥ ४ ॥
प्रसीद मे हितं कर्तुं हर तापत्रयं प्रभो ॥

- २९ -

न लब्धमपि जानाति दरिद्रो रक्षितुं धनम् ।
ईदृश्येव ममावस्था जातेदानीं जनार्दन ॥ १ ॥
भोज्यैर्वस्त्रैर्भूषणैर्वा स दर्शयति चेध्दनम् ।
राजा हरति साशङ्कः सासूयश्चाखिलो जनः ॥ २ ॥
एवं नष्टे धने तस्य ताप्यतो दूयते मनः ।
योगक्षेमं तु वोढुं मे त्वमेवासि क्षमः प्रभो ॥ ३ ॥

- ३० -

इदानीं गुणदोषान्मे विचारयसि किं वृथा ।
पातकानामहं तावद् राशिरेव न संशयः ॥ १ ॥
पतितानां पावनेन त्वयाहं नित्यसंगतः ।
स्वस्वधर्मः समाश्रेयस्त्वयापि च मयापि च ॥ २ ॥
आघ्नन्नपि घनः स्पर्शमणिं स्वर्णत्वमश्नुते ।
क्षुद्रा कस्तुरिकायोगात् मृत्तिका याति गौरवम् ॥ ३ ॥

- ३१ -

याचकोऽहं भवान् दाता पश्यामस्तथ्यमत्र किम् ।
प्रसारितो मया हस्तः स्वोचितं कर्तुमर्हसि ॥ १ ॥
तव नाम मया गेयं तोष्यं मम मनस्त्वया ।
छिन्ध्दीदानीं प्रभो वाद मावयोरुभयोरिमम् ॥ २ ॥

- ३२ -

शुभं च सरसं चापि शुध्दबीजोद्भवं फलम् ।
मुखे सुधोपमा वाणी देहो देवस्य कारणे ॥ १ ॥
सर्वाङ्गं निर्मलं यस्य चित्तं गाङ्गं जलं यथा ।
दर्शनात्तस्य नश्यन्ति तापा विश्रान्तिदायिनः ॥ २ ॥

- ३३ -

आशाबध्दा जना नाम कथं नारायणं विदुः ।
इन्द्रियाण्युपसेवन्ते वाञ्छितार्थाभिलाषिणः ॥ १ ॥
उन्मत्ता इव मुह्यन्ति युक्ताचाराविचारिणः ।
अहो रुचिरमप्यन्नं विषयोगेण दुष्यति ॥ २ ॥

- ३४ -

भोगो भुक्तो विवेकेन त्यागरूपो न संशयः ।
भोगस्य सहसा त्यागो न त्यागो भोग एव सः ॥ १ ॥
एवं प्रतीयते ह्यत्र धर्माधर्मविपर्ययः ।
कर्मणा येन देवस्य दर्शने सान्तरायता ॥ २ ॥
अहो सदपि तद्गण्यं पापरूपं कृतात्मभिः ।
अतस्तत्कर्मसंकल्पः सर्वथा हेय एव ते ॥ ३ ॥
विवेक एव लाभाय मिथ्या मोहश्च हानये ॥ ४ ॥

- ३५ -

सुवर्णपात्रं पयसा प्रपूर्य पुरो हितं चेद्दत्तकुक्कुरस्य ।
मुक्ताफलानां यदि नाम हारः खरस्य कण्ठे निहितः कदाचित् ॥ १ ॥
कस्तूरिका घ्राणसुखस्य हेतोः दत्ता कदाचिद्यदि सूकराय ।
ज्ञानोपदेशो बधिरस्य कर्णे कृतो यदीमानि कुतः फलेयुः ॥ २ ॥
यद्येन वेद्यं स तदेव वेद भक्तेतरो भक्तिरसानभिज्ञः ॥ ३ ॥

- ३६ -

दानं प्रभो त्वामिदमेव याचे त्वद्विस्मृतिर्मे हृदि जातु मा भूत् ।
प्रेम्णैव गास्यामि गुणांस्त्वदीयान् अयं हि लाभः परमो मतो मे ॥ १ ॥
मोक्षेण नार्थो मम संपदा च सत्संगतिं देहि सदैव मह्यम् ।
महान्तमेतं समवाप्य लाभं न गर्भवासं न हि रोचयिष्ये ॥ २ ॥

- ३७ -

पार्श्वस्थेनापि किं तेन यत्र सक्तं न मानसम् ।
प्रौढो वत्सोऽन्तिकस्थोऽपि धेन्वा स्तन्यं न पाय्यते ॥ १ ॥
यत्र चित्तं समासक्तं तस्याङ्गस्पर्शमात्रतः ।
विश्लेषेऽपि परिष्वक्तः पवनोऽपि सुखायते ॥ २ ॥
विना भावं हरेः सेवा यथान्नं लवणं विना ॥ ३ ॥

- ३८ -

अहो पण्डरीनाथमेकं विहाय न मे दैवतैः कार्यमस्तीह किंचित् ।
यदा संगताऽऽस्ते सरित्सागरेण तदान्येन नाम्ना कुतः शिष्यतेऽसौ ॥ १ ॥
न किं दीपकानां प्रकाशोऽखिलानां समस्तोऽपि भानूदये नाशमेति ।
विना पण्डरीराजमेकं न जाने न जाने न जाने किमप्यन्यदेव ॥ २ ॥

- ३९ -

न हि भेदो हरिहरयोर्नार्होऽयं वादविषयतां यातुम् ।
एकस्य हृदय एको नित्यं वसतीति बोध्दव्यम् ॥ १ ॥
निवसति हि शर्करायां माधुर्यं किं च शर्करा तस्मिन् ।
दक्षिणवामे भिन्ने अङ्गे एकस्य किं न देहस्य ॥ २ ॥
भेददृशा यदि कश्चिद् हरं हरिं चेत्युभे पदे पश्येत् ।
स्वरभेदोऽत्र सुसूक्ष्मस्तन्नाम्नोः केवलं प्रतीयेत ॥ ३ ॥

- ४० -

समर्थस्य चेद्बालको दीनदीनो हसेयुर्जना नाम कं ब्रूहि देव ।
अभद्रोऽपि वा दुर्गुणोऽप्यस्तु नाम न किं सर्वथासौ पितुः पालनीयः ॥ १ ॥
तथा पातकी नाम देवाहमेकः समर्थस्य ते दासभावं गतोऽस्मि ।
अतो रक्ष मां रक्षणार्हं दयालो कथं स्यां कदाचित् त्वयोपेक्षणीयः ॥ २ ॥
इदं वोऽस्ति परं भाग्यं हस्तपादादिकं यथा ।
कृपया परमेशस्य भवत्येव निरामयम् ॥ ३ ॥
मुखं हरेर्गुणान् गातुं श्रोतुं कर्णद्वयं यशः ।
लोचने वीक्षितुं रूपं सर्वं दत्तं दयालुना ॥ ४ ॥
कत्यन्धा बधिरा मूका भजनेन विना हरेः ।
मन्दभाग्या जगत्यस्मिन् अद्य यावत् प्रतारिताः ॥ ५ ॥
सदनं वह्निसात् कृत्वा यो जाग्रत्तत्र तिष्ठति ।
ततः पलायते नैव नूनं नाशमुपैति सः ॥ ६ ॥
अद्यापि श्रेयसे तावत् सावधानाः प्रजागृत ॥ ७ ॥

- ४१ -

स्वयं पापं कृतं येन येन वानुमतं किल ।
तावुभावपि लोकेऽस्मिंस्तुल्यं पतनमृच्छतः ॥ १ ॥
सकलं विषयोगेण नवनीतं विषायते ।
अतः श्रेयस्करी नित्यं त्यक्ता दुर्जनसंगतिः ॥ २ ॥
सस्यादानाय गच्छन्तीं धेनुं क्षेत्रान्निवारयेत् ।
श्रमं न गणयेल्लाभः कुतः कर्म कृतं विना ॥ ३ ॥

-४२ -

दीनानामपि दीनोऽहं साभिमानो भवान् मयि ।
शरणं त्वां प्रपन्नोऽस्मि हितं मे कर्तुमर्हसि ॥ १ ॥
दीनबन्धो कृपासिन्धो नाम सार्थं निजं कुरू ।
इदानीं व्यसनेऽस्मिन्मां तव हातुं न युज्यते ॥ २ ॥

- ४३ -

आक Ary वनजान् वृक्षां चन्दनो न हि भाषते ।
अहो गृह्णीत मे गन्धं दीयते वो मयेति च ॥ १ ॥
योऽन्तर्यस्य स्वभावोऽसौ न बहिर्न प्रकाशते ।
बलादपि धृतो नाम दुर्वारः प्रकृतेर्गुणः ॥ २ ॥
प्रबोधयति न प्रातः सविता निद्रिताञ्जनान् ।
'प्रकाशं प्रतनुध्वं भोः' निजान् रश्मीनिति ब्रुवन् ॥ ३ ॥
शिखिनां नर्तने हेतुर्ननु मेघस्य दर्शनम् ।
भूतार्थो नाम केनापि शक्यते न निगूहितुम् ॥ ४ ॥

- ४४ -

हस्तौ पादौ चान्दनौ चन्दनस्य स्पर्शस्याङ्गं सर्वतः स्पर्शरूपम् ।
दीपे ध्वान्तं नो पुरः पृष्ठतो वा सर्वाङ्गीणा माधुरी शर्करायाः ॥ १ ॥
एवṁ तावद् दुर्गुणो नाम कश्चिद् नैव द्रष्टुं शक्यते सज्जनेषु ।

- ४५ -

हा हा भक्तिविहीनस्य व्यर्थं मे याति जीवितम् ।
जगदीश दयालो त्वां नच जानामि सेवितुम् ॥ १ ॥
अतो बध्दाञ्जलिस्तूष्णीं स्थितोऽस्मि पुरतस्तव ।
कांदिशीको बतेदानीं त्वत्पादार्पितलोचनः ॥ २ ॥
सादरं स्वीकरिष्यामि दानं दास्यसि यत्प्रभो ।

- ४६ -

यद्याच्यं तच्छ्रीपतिर्याचनीयो भक्त्यास्माभिः सेवितव्यः स एव ।
तस्योपान्ते हीयते किं नु यस्य दासीभूता ऋध्दयः सिध्दयश्च ॥ १ ॥
सृष्टाः सर्वे स्थावरा जङ्गमाश्च स्वास्थ्यं नीता येन विश्वंभरेण ।
तस्य प्रीत्यै सर्वलोकेश्वरस्य चित्तं वाचं कायमप्यर्पयामः ॥ २ ॥

- ४७ -

सारं सकलशास्त्राणां वेदानां मूर्तिरेव यः ।
स विठ्ठलः सहायो मे प्राणाभ्यधिकवल्लभः ।
नातो वशंवदोऽन्येषां नामैकशरणोऽस्म्यहम् ॥ १ ॥
सगुणं निर्गुणं चेति रूपे द्वे यस्य कीर्तिते ।
स विहारपरोऽस्माभिः सार्धं साक्षान्न संशयः ॥ २ ॥
विधेरपि विधातारः स्वयं सिध्दा वयं किल ।

- ४८ -

क्षालितोऽपि महातीर्थे रासभो नैति वाजिताम् ।
किं खलेनोपदिष्टेन चित्तं तस्य न शुध्यति ॥ १ ॥
शर्करामिश्रितं दुग्धं पायितोऽपि भुजंगमः ।
आत्मनो जन्मतः सिध्दं न जह्यादान्तरं विषम् ॥ २ ॥
शुनः क्षीरस्य पानं हि वमनं च समं विदुः ।

- ४९ -

कियन्तो दाम्भिका लोके सन्ति साधुब्रुवो जनाः ।
कुर्वन्ति भूतिलिप्ताङ्गाः पापं मीलितलोचनाः ॥ १ ॥
वैराग्यं प्रकटीकृत्य विषयानुपभुञ्जते ।
धिक् पाटवममीषां भोः धिक् संगं च कियद्ब्रुवे ॥ २ ॥

- ५० -

करेणैकेन बिभ्राणः खङ्गं चर्मापरेण च ।
रणे बत कथं योत्स्ये सुव्यापृतकरद्वयः ॥ १ ॥
सन्नो वर्मादिभारेण मृत्योरिव वशे स्थितः ।
किं च वाजिवरे तुङ्गे बलादेव निवेशितः ॥ २ ॥
कथं द्रुतं समेष्यामि सहसैवारिसैनिकैः ।
इत्युपायानिमान् सर्वान् अपायान् संप्रधारयन् ॥ ३ ॥
हा हेति क्रोशति क्लीबो भयमोहितचेतनः ।
प्राणी तावत् परं ब्रह्म वर्म जानाति न त्विदम् ॥ ४ ॥

- ५१ -

अन्धकारं विचिन्वन्तो दीपमादाय यत्नतः ।
वीक्षितुं प्रभवन्तीति न विचारयितुं क्षमम् ॥ १ ॥
कलिकालान्न भेष्यामो विष्णोर्दासा वयं किल ।

- ५२ -

कथं विलोभयेदस्मान् संसारमृगतृष्णिका ॥ २ ॥
न पांसुटलैः क्षिप्तैः दूष्यन्ते रश्मयो रवेः ।
भाग्यहीनैर्निर्विवेकैः कथं बत न बुध्यते ॥ ३ ॥
तृणैः संव्रियते वह्नि- रयथार्थमिदं वचः ।

- ५३ -

लाघवं देहि मे देव गौरवं जातु मास्तु मे ।
अहो पिपीलिका क्षुद्रा शर्करामश्नुतेऽशितुम् ॥ १ ॥
वारणस्तु महारत्न-मङ्कुशेन प्रतुद्यते ।
गरीयान् महिमा यस्य दुःसहा तस्य यातना ॥ २ ॥
अतो विवेकिना भाव्यं लघुतोऽपि लघीयसा ।

- ५४ -

सा श्रेयसी नीचदशा मता मे मर्ूच्छन्ति यस्यां न हि मत्सराद्याः ।
पूरेण हार्या महता हि वृक्षा-स्तिष्ठन्ति सुस्थाः खलु वेतसास्तु ॥ १ ॥
ये सन्ति नीचैः शिरसः पुरस्तान् तुङ्गास्तरङ्गा अतियन्ति सिन्धोः ।
अहो बताग्रे चरणानतानां नूनं बलाढया अपि दुर्बलाः स्युः ॥ २ ॥

- ५५ -

रविश्च दीपश्च मणिश्च द्दश्यानर्थान् स्वभासा किल भासयन्ति ।
सन्तस्त्वदृश्यं परमात्मरूपं प्रकाशतां स्पष्टतया नयन्ति ॥ १ ॥
ब्रह्माद्यगम्यो महिमा किलैषां न पामरो वर्णयितुं क्षमोऽस्मि ।
निर्वापयेच्चन्दनेनाङ्गतापं सत्सङ्ग एव त्रिगुणस्य बाधाम् ॥ २ ॥
पिण्डस्य पुष्टिं पितरौ विधत्तः सत्संगमः कृन्तति जन्ममृत्यू ।
क्षुन्नाशहेतुः किल मिष्टमन्नं भवार्तिभङ्गाय वचः सतां तु ॥ ३ ॥
तस्मादहूतोऽपि सतां श्रयेत सद्भावतः पादयुगं मनस्वी ।

- ५६ -

कायेन वाचा मनसापि देव सर्वात्मना त्वां शरणं गतोऽस्मि ।
त्वया विना मे रुचयेऽस्ति नान्यत् त्वत्पादयोरेव मतिर्मदीया ॥ १ ॥
सुदुस्तरं मे विषमं त्वदन्यः को नाम भो वारयितुं समर्थः ।
दासा वयं ते त्वमृणी च नोऽस्ति संबन्ध एषोऽस्ति मिथः पुराणः ॥ २ ॥
द्वारेऽस्मि तेऽहं स्थितिभागिदानीं देयस्य मेऽर्थस्य हि याचनाय ।

- ५७ -

दत्त्वा प्रेम त्वया चित्तं याचितं मम विठ्ठल ।
अयं विनिमयो युक्तः संवृत्तः किं बतावयोः ॥ १ ॥
भावादेकं हरन् देव यस्त्वमन्यत् प्रयच्छसि ।
तमुदारं कथंकारं ब्रूमहे त्वां नु तत्त्वतः ॥ २ ॥
अल्पार्थे बहुलं हृत्वा कुण्ठितां कुरूषे मतिम् ।
वित्ते ह्यपहृते चित्ते को न वा विमनायते ॥ ३ ॥

- ५८ -

रुवता कुक्कटेनैव किमुद्यन् कथ्यते रविः ।
नोदितं भास्करेणेति ज्ञेयं किं कुक्कटारूते ॥ १ ॥
आरोप्यते वृथा सत्त्वं किं मय्यनधिकारिणि ।
भृत्येनासेवितः स्वामी किं नान्नं विन्दतेऽशितुम् ॥ २ ॥
अनन्तस्य करायत्ता विद्यन्ते सकलाः कलाः ।

- ५९ -

भक्तेऽसति कथं देवः साकारः सेव्यतामियात् ।
तौ परस्परशोभायै भवतो हेमरत्नवत् ॥ १ ॥
देवादृते कुतोऽन्यस्मात् भक्तो निषकामतां व्रजेत् ।
शिशौ मातुस्तथा भक्ते स्नेहो देवस्य शावतः ॥ २ ॥

- ६० -

शुभमाचरितं शिशौ यदि स्यात् हृदये तत्कुरुते पदं जनन्याः ।
मनुते ननु जीवितादपीयं सुतरां वल्लभमर्भकं स्वभावात् ॥ १ ॥
उपचारकृतेऽपि बालकचेत यदि तस्या अपनीयते सकाशात् ।
विषवत् खलु दारूणो वियोगो बत तस्या अतिमात्रदुःसहः स्यात् ॥ २ ॥
चरणे नवनीतलोपनेन नयनं निर्वृतिमश्नुते न किं वा ।

- ६१ -

कौतुकेन जननी निजबालान् न प्रवर्तयति किं कलहेषु ।
आत्मना च जनितान् कलहांस्तान् वीक्ष्य किं न रमते स्वयमेव ॥ १ ॥
मामकोऽयमिति चुम्बति सैकं ताड़यत्यपरमेव तु कंचित् ।
बालकेषु सकलेषु तु तस्या-स्तुल्य एव भवति प्रियभावः ॥ २ ॥
अल्पमस्तु तव मे बहु खाद्यं वाद एव वितथोऽस्ति शिशूनाम् ।
वत्सलात्र जननी किल मूलं वेत्ति सैव सकलं च रहस्यम् ॥ ३ ॥

अनुवाद

श्री-तुकाराम-महाराज:

(वसन्‍ततिलक-वृत्तम्)

आश्रित्य येन सुकरं खलु भक्‍तिमार्गं
वेदान्‍त्-वेद्-निहितं विवृतं रहस्यम् ।
इन्‍द्रायणी न विदधौ यदभङ्‍गं-भङ्‍गं
सोऽयं ’तुका’ जयति भागवतो महात्मा ॥

( गीतम् )
यो विरचितवान् अभङ्‍गवाणीं बहुजनहितकाम:
वन्द्यते सैष तुकाराम: ॥ धृ ॥

अभङ्‍गरूपो रम्यो रुचिर:
यत्सारस्वत-महासागर:
सर्वेषामुपकारको जनानाम् आगमनिगमै: सम: ॥१॥

श्री-ज्ञानेश्वर-विरचित-मूल:
येन विभूषित-विशाल-चूल:
दृढतां नीतो लोकमङ्‍गलो भागवतो धर्म: ॥२॥

भक्‍तिपताका येनोन्नमिता
विहरति गगनाङ्‍गणं प्रयाता
’विठ्ठल’ ’विठ्ठल’ इति यन्मन्त्रो मोक्षकर: परम: ॥३॥

वेदपुराणै: सदा कीर्तित:
वेदान्‍तैरपि पुरा वर्णित:
विषह्य विपदो येन विमुक्‍तो ज्ञानराशिरनुपम: ॥४॥

डॉ. दे. ख. खरवंडीकर

गीतायनम् , नरहरिनगर,

गुलमोहर रस्ता , अहमदनगर - ४१४००३

भ्रमरध्वनि - ९८९०८४५४५८