तुकारामस्य कीर्ति: शिवरायस्य कर्णपथं गता । तेन
दीप-छत्र-वस्त्र-अश्व-धन-रत्नादिकं सेवकहस्तेन
तुकाराममहाराजाय प्रेषितम् । तेन न तत् स्वीकृतम् ।
अभङ्गचतुष्टयेन सह तत्सर्वं वस्तुजातं प्रतिप्रेषितम् ।
तुकाराम: देवं अवदत्-
यदेव न रोचते मह्यम् तदेव पूरयसि ।
- अपि मम परीक्षार्थम्? छत्राश्वादिसम्पत् न मे
मोहकारिणी भविष्यति । न मे तया किमपि कार्यम् । किमिति
माम् अस्मिन् मायाजले पातयसि? तुकारामस्य नि:स्पृहतया
महाराज: अत्यन्तं चकित: अभवत् ।
वस्त्रभूषणालङ्कारद्रव्यजातं गृहीत्वा स्वयं महाराज:
सेवकै: सह लोहगावं प्राप्त: । राजद्रव्यं दृष्ट्वा
तुकाराम: अगदत्-
कीदृशोऽयं निधि: राजन् अस्माकं विठ्ठल: पर: ।
उदारं भवन्तं मन्ये- प्राप्त: स्पर्शमणि: पुन: ।
तुका वक्ति हि अस्मदर्थं धनं गोमांससदृशम् ।
क्षुद्रा पिपीलिका राजा च समानौ अस्मदृष्ट्या । सुवर्णं
मृत्तिकयोरपि अभेद: ।
पिपीलिकारावौ जीवरूपेण समानौ । सुवर्णमृत्तिके मूल्येन
समाने ।
धनमानादिना अस्माकं सुखं न भविष्यति । । भवता परमेश्वरस्य
नामस्मरणं कर्तव्यम् । श्रीहरे: सेवकत्वेन
वर्तितव्यम्-तदेव अलम् ।
प्रमोदाय हि अस्माकं मुखे भवतु भगवन्नाम ।।१॥
दास: श्रीहरे: स्वयं भूया: - तदेव इप्सितं मम ।।२॥
तुकारामस्य उपदेशेन प्रभावितेन राज्ञा राज्यत्यागपूर्वकं
तुकारामस्य भजनकीर्तनश्रवणं प्रारब्धम् । तदा तुकारामेण
महाराजाय तस्य सेवकेभ्य: च क्षात्रधर्म: उपदिष्ट: ।
उपदेश: कर्म अस्माकम् क्षात्रधर्म: भवत्कृते ।
युद्ध प्रसङ्गे सेवकै: प्राणविनिमयेन रक्षणीय: स्वामी ।
शरगोलिकाप्रहारा: सैनिकै: लीलया सोढव्या: । शत्रुं
वञ्चयित्वा राज्ञ: आत्मनश्च रक्षणं सेवकै धैर्येण
पराक्रमेण च करणीयम् । शत्रुस्वं हरणीयम् । स्वस्थानं
अरिणा अनभिज्ञातं भवितव्यम् । स्वामिरक्षणार्थं प्राणा:
पणीकरणीया: । सैन्यबलं सेवकबलमेव राजानं त्रैलोक्ये समर्थं
कारयति ।
तुकारममहाराजेण शिवराय: आशीर्वचोभि: विसर्जित: । महाराज:
सैनिकाश्च तुकारामस्य उपदेशं स्वीकृतवन्त: । तमनुस्मृत्य
आचरितम् सर्वै:। महाराजस्य आशीर्वचोभि: शिवराय:
सामर्थ्यसम्पन्न: अभवत् ।