मम विठ्ठलस्य कीदृश: प्रेमभाव: -देव: स्वयं जात: गुरु: मम |
ज्ञानमार्गे गुरो: विशेषा महती विद्यते तथा भक्तिमार्गे नास्ति |
मेघवृष्टिवत् करणीय: उपदेश: | सर्वेषां समान: |
एवं चिन्तयत: महाराजस्य अद्वैते श्रद्धा नासीत् |
अद्वैतवचनं न मे समाधानम् |
परमेश्वरस्य सगुणरूपे बद्धमानस: महारज: न कदापि गुरं शरणं गत: |
न रोचते मे अद्वतं अतो न मे गुरु प्रार्थ्य |
गच्छन् जन: लभते एव मार्ग: | गुरु अवरोध: भक्तिमार्गे |
श्रेष्ठं जनं आचारशीलं- दृष्ट्वा अनुकरोति मध्यम: |
विप्रवेषेण आगत्य देय: अनुग्रह: तुकारामाय |
स्वप्ने तुकाराममहारै: दृशःटम्- इन्द्रायण्यां स्नात्वा देवालयं
गच्छद्भि: तै: एक: ब्राह्मण: दृष्ट: नमस्कृतश्च | संतुष्टेन तेन
हस्तं मस्तके निधाय ’रामकृष्ण हरि:,’ मन्त्र: उपदेशित: | आत्मन:
गुरुपरम्परा च निवेदिता | इति माघमासे शुक्लपक्षे दशम्यां
गुरुवासरे एतद् घतितम् |
गङ्गास्नानमार्गे प्रापित: गुरु: येन कर: शिरसि धृत: दृढ: |
राघवचैतन्य: केशवचैतन्य: क्रम: एष परम्पराया: |
’बाबाजी’ स्वनाम कथितं हि तेन मन्त्रश्च श्रावित: ’रामकृष्ण: हर:’
माघे शुक्लदशम्यां गुरुवासरे शुभे कृतोऽङ्गिकार: तुका वक्ति |
तुकारममहाराजेन कोऽपि मन्त्रार्थं न याचित: | स:वक्ति-
न मया याचितो मन्त्र: स्थित: दृढं उररीकृत्यात्मानम् |
महाराज: उद्घोषयति- न जनामि कर्णे मन्त्रदानम् न वा एकान्ते
ज्ञान-दानम् | यो देव: केनापि न दृष्ट: तं दर्शयितुं समर्थोस्मि |
न मन्त्रदानं न एकान्तज्ञानम् | अदृष्टपूर्वम् देवं दर्शयाम: सुखं ध्रुवम् |