-
२
-
वेद किं बालकोऽवस्थां निजमातुः कदाचन ।
वहते सकलां चिन्तां सा पुनस्तस्य सर्वदा ॥
१
॥
बालकस्य जनन्याश्च मिथः सम्बन्ध ईदृश: ।
न
शिलालाबुताराय तार्यते सा त्वलाबुना ॥
२
॥
वेष्टयंश्चन्दनं भोगी निर्वृतोऽपि न तत्समः ।
स्पर्शोपलः स्वयं भूत्वा मामयस्त्वं नय प्रभो ॥
३
॥
-
३
-
दयालो विद्यते देव हस्तस्ते मम मस्तके ।
तवापि पादयोश्चित्तं सक्तं मम निरन्तरम् ॥
१
॥
इत्थं संगतयोर्जातः सम्बन्धो नौ परस्परम् ।
अहं तव वशे वर्ते त्वं ममासि वशंवदः ॥
२
॥
विधेया ते मया सेवा कृपा कार्या त्वया मयि ।
-
४
-
वदान्य विश्वंभर पाण्ड्ुरङ्ग कुरूष्व कर्णे मम वाचमेताम् ।
दासास्त्वदीयाः किल वर्णिताः स्मो युक्तं न तेऽस्मानधुना विहातुम्
॥
१
॥
त्वं पापिनां पावन इत्यवैमि को वा त्वदन्यो मम वेद दोषान् ।
लोभेन मोहेन च बाधितोऽहम्-- इत्यत्र को वा किल दूषणीयः ॥
२
॥
कृतानि कामं गुरुपातकानि मया दयालो भुवि तानि तानि ।
परं शरण्यं चरणद्वयं ते त्राणाय मे स्याच्छरणागतस्य ॥
३
॥
-
५
-
न
चेदहं भोः पतितोऽभविष्यं त्वं पावनः कस्य कुतोऽभविष्यः ।
अतो ममादौ पतितस्य नाम ततो दयाब्धे तव पावनस्य ॥
१
॥
पाषाणतां स्पर्शमणिर्दधानो लोहस्य योगान्महिमानमेति ।
तद्गौरवे कल्पतरोर्निदानं यद्याचकैर्याच्यत ईप्सितं सः ॥
२
॥
-
६
-
न
स्वान्दोषान्न जानामि दुर्निवारं तु मे मनः ।
तन्निरुध्य दयासिन्धो नाम सत्यं निजं कुरू ॥
१
॥
सुवचं दुष्करं कर्म विषयाधीनचेतसः ।
यथा तथास्मि ते दासो मौदासीन्यमुपाश्रय ॥
२
॥
-
७
-
अङ्गीकृतः स्यां भवतेति देव न जायते नाम मतिर्मदीया ।
लज्जास्पदं स्यादुभयोरपीदं देवस्य ते भक्तिमतस्तथा मे ॥
१
॥
एकान्तमाश्रित्य यदा कदापि चलं न चित्तं स्थिरतामुपैति ।
मत्पादयोर्गौरवशृङ्खलेयं हा स्नेहपाशश्च गले चकास्ति ॥
२
॥
सुस्थं शरीरं विषयोपभोगैे-- र्भोज्ये कदन्ने न रूचिर्मुखस्य ।
एतेषु दोषेषु समाश्रितेषु निद्रा तथालस्यमुपैति वृध्दिम् ॥
३
॥
-
८
-
विषयाभिमुखं धावति मुहुर्मुहुर्लोलुपं मनः सुतराम् ।
तत्तु निवृत्तं कुरूते ततः स एको बली च शूरश्च ॥
१
॥
प्रहरेद्यदि सहसेदं का भविता ते दशा न जानामि ।
बहवोऽनेन हि सुधियः प्रतारिता अद्य यावदिह जगति ॥
२
॥
-
९
-
यद्वयं पापिनो देव तद्भाग्यं परमं तव ।
अस्मदुध्दारहेतोर्हि जातस्त्वं नामरूपधृत् ॥
१
॥
निराकारो भेदशून्योऽ भविष्यः परमार्थतः ।
तदाऽमंस्यत को नु त्वां जगदुध्दरणक्षमम् ॥
२
॥
अन्धकारेण दीपस्य प्रकाशः शोभतेतराम् ।
माणिक्यं प्रभयोपेतं भवत्याधारयोगतः ॥
३
॥
वैद्यः प्रकाशतां याति रोगस्यैव चिकित्सया ।
सत्त्वासत्त्वपरीक्षाऽस्य सर्वतोऽनामये कुतः ॥
४
॥
अमृतस्य महार्हत्वं प्राप्तं विषगुणेन वै ।
हीनं पित्तलमित्येव गौरवं याति काञ्चनम् ॥
५
॥
एवं देव त्वमस्माभि- र्देव त्वमधिरोपितः ।
भूत्वा पापतरैः सर्वेरिति वेदितुमर्हसि ॥
६
॥
-
१०
-
सेवमाना न याचन्ते ये किंचिज्जगदीश्वरम् ।
सेवायां सादरस्तेषां स सदेत्यवधार्यताम् ॥
१
॥
निर्यातयत्यृणं तेषां दीनरूपः शनैः शनैः ।
तेभ्यो न क्षणमप्येव पार्थक्येनावतिष्ठते ॥
२
॥
देवे भक्तिः परा यस्य मानसे विद्यतेतराम् ।
देव एव स विज्ञेयो देवस्यापि नरोत्तमः ॥
३
॥
-
११
-
मातैव कृन्तेद्यदि कण्ठनालं बालं ततोऽस्या बत को नु रक्षेत् ।
न
वेत्सि नारायण किं त्वमेतद् दीनं वृथा मामतिसंदधासि ॥
१
॥
अलं भयेनेति वदन् स्वयं चेद् हिंस्यात्तदा को नु भवेत्सहायः।
धनं जिहीर्षेन्नृप एव यत्र निवारयेत्तत्र जनो नु कोऽन्यः ॥
२
॥
मनो नितान्तं बत चञ्चलं मे त्वमेव शक्तोऽसि नियन्तुमीश ।
स्थिरं न कुर्या यदि सूत्रधार तदा वशे मे न कदापि तिष्ठेत् ॥
३
॥
-
१२
-
जीवन्ति जीवाः किल जीवनेन मीना विना तेन बत म्रियन्ते ।
सर्वस्य कामं प्रिय एव भानु- र्न तं विना जीवति पङ्कजं तु ॥
१
॥
न
प्रेमपात्रं न शिशुः परेषां माता सचिन्ता तु विशेषतोऽस्मिन् ।
यस्यास्ति भावो हृदि यादृश हि तस्यान्तिके तादृश एव देवः ॥
२
॥
-
१३
-
कथं न्वहो त्वं किल वीक्षितोऽभूः पुण्यात्मना गोपगणेन पूर्वम् ।
दिदृक्षया भोस्तव तादृशस्य जीवो मदीयो भृशमुत्सुकोऽयम् ॥
१
॥
कदा नु लाभस्तव दर्शनस्य कीदृक् सुखं तज्जनितं भवेन्नु ।
भो
दर्शनं तेऽननुभूय साक्षात् कथं नु विन्देय परं सुखं तत् ॥
२
॥
प्रतिक्षणं दर्शनकामुकं मां परिष्वजेथा इति भावयामि ।
-
१४
-
यत्पदं चिन्तनीयं ते मदधीनं तदस्ति भोः ।
तत्र प्रेम तु दातव्यं त्वयैव कृपया विभो ॥
१
॥
करुणायाचनं नाम याचकस्य परो गुणः ।
इदमेव व्रतं दातुर्नाम रक्ष्यं यदात्मनः ॥
२
॥
तिर्यगङ्केशयो मातुः स्तने लगति बालकः ।
मातापि तं दयोपेता स्तनं पाययते निजम् ॥
३
॥
कच्छपीव शिशून्देव मां पुषाण कृपादृशा ।
पालने सर्वजन्तूनां सूत्रधारस्त्वमेव हि ॥
४
॥
-
१५
-
रूपं ध्यास्यामि ते देव नाम गास्यामि गौरवात् ।
नान्यत्किंचिद्विधास्यामि
मनसा वचसापि च ॥
१
॥
पादो द्रक्ष्यामि चक्षुर्भ्यां
वक्ष्यामि शिरसादरात् ।
इतोऽन्यन्न करिष्यामि कार्यं किमपि सर्वथा ॥
२
॥
श्रोष्यामि किल कर्णाभ्यां तवैव गुणगौरवम् ।
इदानीमलमन्येषां सोत्कण्ठं श्रुतया गिरा ॥
३
॥
करेणोपचरिष्यामि पद्भ्यामेष्यामि तेऽन्तिकम् ।
त्वां विहाय गमिष्यामि नान्यत्र क्वापि जातुचित् ॥४॥
धास्यामि चरणोपान्ते जीवमेतं तव प्रभो ।
अन्यस्मै किल किं कस्मै दास्याम्यन्यद्दयानिधे ॥
५॥
-
१६
-
दाता नारायणः साक्षात् अहो भोक्ता स एव च ।
ब्रुवतः कोऽवकाशोऽत्र लब्धं भुक्तं मयेति तत् ॥
१
॥
चक्षर्ुभ्यामीक्ष्यते यध्दि तद्रूपं भासते मम ।
नादोऽत्र श्रूयते यावान् स गोविन्दमयोऽखिलः ॥
२
॥
-
१७
-
भूतानां यत्परित्राणं सा दयेति निगद्यते ।
दलनं कण्टकानां च दयैव किल तत्त्वतः ॥
१
॥
शास्त्रण्यालोच्य सर्वाणि धर्मं नीतिं तथैव च ।
कृत एष मया सम्यक् सारासारविनिश्चयः ॥
२
॥
उन्मत्तेनाविचायैंव च्छन्दतो यद्विधीयते ।
पापनाम्ना तदेवेह जगति व्यपदिश्यते ॥
३
॥
अहो आत्मानमायास्य ग्रहीतव्यं पुनः पुनः ।
जन्म धर्मस्य रक्षार्थं देवेनापि महीतले ॥
४
॥
-
१८
-
तृषितानां तृषाशान्तिर्यस्य पानेन जायते ।
न
तद्भागीरथीवारि स्तोकांशेनापि हीयते ॥
१
॥
सिध्दिर्मनोरथानां मे जायतां करूणानिधे ।
उदाराणामुदारस्त्वमल्पैव मम वासना ॥
२
॥
पश्यन् कृपाकटाक्षैर्मां साहाय्यं कुरू मे प्रभो ॥
-
१९
-
दृशा हीनः स्वयं सर्वान मनुतेऽन्धाञ्जनानिह ।
रुचिलोपे तथा रोगी मिष्टान्नं मन्यते विषम् ॥
१
॥
नात्मना यः शुचिस्तस्य सर्वत्राशुचिता ननु ।
-
२०
-
भाग्यशाली दरिद्रो वा पिता मेऽस्तीति बालकः ।
नैव वेद करे दातु - मस्ति वा तस्य नार्थितम् ॥
१
॥
वस्तुदर्शं याचतेऽसौ परिरम्भणपूर्वकम् ।
हृदयान्तर्गतं भावं ज्ञातुमर्हसि मे प्रभो ॥
२
॥
-
२१
-
तृप्तायां गर्भिण्यां तृप्यति गर्भोऽपि किं न नामास्याः ।
वैष्णवतोषे विहिते तुष्यति विष्णुः सुखेनैव ॥
१
॥
पुत्रस्य विजयलाभे पितापि सुखमश्रुते नाम ।
अमृतस्य सेवनेन हि शाम्यति तृष्णा रुजा चापि ॥
२
॥
-
२२
-
भृङ्ग: परिमलं भुङ्क्ते न सा कुमुदिनी पुनः ।
नावैषि त्वं निजं नाम वयं तत्सुखकोविदाः ॥
१
॥
तृणं भुङ्क्ते स्वयं माता वत्सस्तु मधुरं पयः ।
यस्य यद्विद्यते नाम न स भोक्तुं तदर्हति ॥
२
॥
शुक्तिगर्भे स्थिता मुक्ता परभोगाय कल्पते ।
-
२३
-
बीजोदरोद्भवो वृक्षो बीजं वृक्षाग्रसंभवम् ।
त्वमहं च तथा देव नूनमन्योन्यसंश्रयौ ॥
१
॥
जले स्थितिस्तरङ्गाणा- मङ्गभूतास्तु तस्य ते ।
बिम्बं च प्रतिबिम्बं च लीयेते स्वीय आत्मनि ॥
२
॥
-
२४
-
तावद्भीतिभृतोऽभूम यावेद्देहाभिमानिनः ।
देहबुध्दौ तु नष्टायां त्राता नः सर्वथा हरिः ॥
१
॥
स्वीय एवाखिलो देशः कालस्यावसरोऽत्र कः ।
स्मृते नाम्नि समर्थस्य किं वृथा चिन्तयानया ॥
२
॥
हरिणा जीवितं सर्व- मेवं सुखमयं कृतम् ।
-
२५
-
चिपटो दर्पणाद्भीतो निगूहति मुखं ह्रिया ।
विद्यते यस्य यच्छिद्रं तत्तस्यारुंतुदं सदा ॥
१
॥
निशि हृष्यन्नपि स्तेनः शशिनं नाभिनन्दति ।
अहो भाग्यविहीनानां जनानामीदृशी दशा ॥
२
॥
-
२६
-
गुडेन यदि कार्यं ते लभ्येन वणिजो गृहे ।
पृष्टया तस्य किं जात्या कुलेन च निगद्यताम् ॥
१
॥
किं रूढावकरे त्याज्या तुलसी स्थानदोषतः ।
अभक्ष्यं जक्षितीत्येव गोदुग्धं किं न सेव्यते ॥
२
॥
ग्राह्यं पनसतो बीजं कवचं त्याज्यमेव तु ।
-
२७
-
वृतिः कथं नु कार्येति चिन्तां वहसि सर्वदा ।
आत्मनः श्रेयसे नूनं घटसे न मनागपि ॥
१
॥
जननीजठरेऽपि त्वं रक्षितोऽसि दयालुना ।
चातकेभ्यो ददद्वारि चिन्तां वक्ष्यति ते हरिः ॥
२
॥
खगान्वनचरांश्चासौ कदापि किमुपेक्षते ।
प्रपन्रं श्रध्दयोपेतं श्रीपतिर्न विमुञ्चति ॥
३
॥
-
२८
-
नैव मानेन मे कार्यं सुखलेशो न मे ततः ।
किं करोमि जनस्त्वेष माननान्न निवर्तते ॥
१
॥
अहो सुखोपचारेण प्लुष्यत्यङ्गमिदं मम ।
मिष्टान्नं भोजने दत्तं विषतुल्यं विभाति मे ॥
२
॥
गौरवं वर्ण्यमानं मे न श्रोतुमपि पार्यते ।
श्रवणेनान्तरात्मा मे व्याकुलत्वमुपैति च ॥
३
॥
त्वां प्राप्स्यामि यया कांचित् तां कलां देव शाधि माम्
अनुधावितयेदानीं किं वृथा मृगतृष्णया ॥
४
॥
प्रसीद मे हितं कर्तुं हर तापत्रयं प्रभो ।
-
२९
-
न
लब्धमपि जानाति दरिद्रो रक्षितुं धनम् ।
ईदृश्येव ममावस्था जातेदानीं जनार्दन ॥
१
॥
भोज्यैर्वस्त्रैर्भूषणैर्वा स दर्शयति चेध्दनम् ।
राजा हरति साशङ्कः सासूयश्चाखिलो जनः ॥
२
॥
एवं नष्टे धने तस्य ताप्यतो दूयते मनः ।
योगक्षेमं तु वोढुं मे त्वमेवासि क्षमः प्रभो ॥
३
॥
-
३०
-
इदानीं गुणदोषान्मे विचारयसि किं वृथा ।
पातकानामहं तावद् राशिरेव न संशयः ॥
१
॥
पतितानां पावनेन त्वयाहं नित्यसंगतः ।
स्वस्वधर्मः समाश्रेय- स्त्वयापि च मयापि च ॥
२
॥
आघ्नन्नपि घनः स्पर्श- मणिं स्वर्णत्वमश्नुते ।
क्षुद्रा कस्तुरिकायोगात्- मृत्तिका याति गौरवम् ॥
३
॥
-
३१
-
याचकोऽहं भवान् दाता पश्यामस्तथ्यमत्र किम् ।
प्रसारितो मया हस्तः स्वोचितं कर्तुमर्हसि ॥
१
॥
तव
नाम मया गेयं तोष्यं मम मनस्त्वया ।
छिन्ध्दीदानीं प्रभो वाद मावयोरुभयोरिमम् ॥
२
॥
-
३२
-
शुभं च सरसं चापि शुध्दबीजोद्भवं फलम् ।
मुखे सुधोपमा वाणी देहो देवस्य कारणे ॥
१
॥
सर्वाङ्गं निर्मलं यस्य चित्तं गाङ्गं जलं यथा ।
दर्शनात्तस्य नश्यन्ति तापा विश्रान्तिदायिनः ॥
२
॥
-
३३
-
आशाबध्दा जना नाम कथं नारायणं विदुः ।
इन्द्रियाण्युपसेवन्ते वाञ्छितार्थाभिलाषिणः ॥
१
॥
उन्मत्ता इव मुह्यन्ति युक्ताचाराविचारिणः ।
अहो रुचिरमप्यन्नं विषयोगेण दुष्यति ॥
२
॥
-
३४
-
भोगो भुक्तो विवेकेन त्यागरूपो न संशयः ।
भोगस्य सहसा त्यागो न त्यागो भोग एव सः ॥
१
॥
एवं प्रतीयते ह्यत्र धर्माधर्मविपर्ययः ।
कर्मणा येन देवस्य दर्शने सान्तरायता ॥
२
॥
अहो सदपि तद्गण्यं पापरूपं कृतात्मभिः ।
अतस्तत्कर्मसंकल्पः सर्वथा हेय एव ते॥
३
॥
विवेक एव लाभाय मिथ्या मोहश्च हानये ॥
३
॥
-
३५
-
सुवर्णपात्रं पयसा प्रपूर्य पुरो हितं चेध्दतकुक्कुरस्य ।
मुक्ताफलानां यदि नाम हारः खरस्य कण्ठे निहितः कदाचित् ॥१॥
कस्तूरिका घ्राणसुखस्य हेतोः दत्ता कदाचिद्यदि सूकराय ।
ज्ञानोपदेशो बधिरस्य कर्णे कृतो यदीमानि कुतः फलेयुः ॥
२॥
यद्येन वेद्यं स तदेव वेद भक्तेतरो भक्तिरसानभिज्ञः ।
-
३६
-
दानं प्रभो त्वामिदमेव याचे त्वद्वि स्मृतिर्मे हृदि जातु मा भूत्
।
प्रेम्णैव गास्यामि गुणांस्त्वदीयान् अयं हि लाभः परमो मतो मे ॥१॥
मोक्षेण नार्थो मम संपदा च सत्संगतिं देहि सदैव मह्यम् ।
महान्तमेतं समवाप्य लाभं न गर्भवासं न हि रोचयिष्ये ॥
२
॥
-
३७
-
पार्श्वस्थेनापि किं तेन यत्र सक्तं न मानसम् ।
प्रौढो वत्सोऽन्तिकस्थोऽपि धेन्वा स्तन्यं न पाय्यते ॥
१
॥
यत्र चित्तं समासक्तं तस्याङ्गस्पर्शमात्रतः ।
विश्लेषेऽपि परिष्वक्तः पवनोऽपि सुखायते ॥२॥
विना भावं हरेः सेवा यथान्नं लवणं विना ।
-
३८
-
अहो पण्ढरीनाथमेकं विहाय न मे दैवतैः कार्यमस्तीह किंचित् ।
यदा संगताऽऽस्ते सरित्सागरेण तदान्येन नाम्ना कुतः शिष्यतेऽसौ ॥१॥
न
किं दीपकानां प्रकाशोऽखिलानां समस्तोऽपि भानूदये नाशमेति ।
विना पण्ढरीराजमेकं न जाने न जाने न जाने किमप्यन्यदेव ॥२॥
-
३९
-
न
हि भेदो हरिहरयो- र्नार्होऽयं वादविषयतां यातुम् ।
एकस्य हृदय एको नित्यं वसतीति बोध्दव्यम् ॥१॥
निवसति हि शर्करायां माधुर्यं किं च शर्करा तस्मिन् ।
दक्षिणवामे भिन्ने अङ्गे एकस्य किं न देहस्य ॥२॥
भेददृशा यदि क१८चिद्
हरं हरिं चेत्युभे पदे पश्येत् ।
स्वरभेदोऽत्र सुसूक्ष्म- स्तन्नाम्नोः केवलं प्रतीयेत ॥३॥
-
४०
-
समर्थस्य चेद्बालको दीनदीनो हसेयुर्जना नाम कं ब्रूहि देव ।
अभद्रोऽपि वा दुर्गुणोऽप्यस्तु नाम न किं सर्वथासौ पितुः पालनीयः ॥१॥
तथा पातकी नाम देवाहमेकः समर्थस्य ते दासभावं गतोऽस्मि ।
अतो रक्ष मां रक्षणार्हं दयालो कथं स्यां कदाचित् त्वयोपेक्षणीयः ॥२॥
इदं वोऽस्ति परं भाग्यं हस्तपादादिकं यथा ।
कृपया परमेशस्य भवत्येव निरामयम् ॥
१॥
मुखं हरेर्गुणान् गातुं श्रोतुं कर्णद्वयं यशः ।
लोचने वीक्षितुं रूपं सर्वं दत्तं दयालुना ॥२॥
कत्यन्धा बधिरा मूका भजनेन विना हरेः ।
मन्दभाग्या जगत्यस्मिन् अद्य यावत् प्रतारिताः ॥३॥
सदनं वह्निसात् कृत्वा यो जाग्रत्तत्र तिष्ठति ।
ततः पलायते नैव नूनं नाशमुपैति सः ॥४॥
अद्यापि श्रेयसे तावत् सावधानाः प्रजागृत ॥
-
४१
-
स्वयं पापं कृतं येन येन वानुमतं किल ।
तावुभावपि लोकेऽस्मिंस्तुल्यं
पतनमृच्छतः ॥१॥
सकलं विषयोगेण नवनीतं विषायते ।
अतः श्रेयस्करी नित्यं त्यक्ता दुर्जनसंगतिः ॥२॥
सस्यादानाय गच्छन्तीं धेनुं क्षेत्रान्निवारयेत् ।
श्रमं न गणयेल्लाभः कुतः कर्म कृतं विना ॥३॥
-
४२-
दीनानामपि दीनोऽहं साभिमानो भवान् मयि ।
शरणं त्वां प्रपन्नोऽस्मि हितं मे कर्तुमर्हसि ॥१॥
दीनबन्धो कृपासिन्धो नाम सार्थं निजं कुरू ।
इदानीं व्यसनेऽस्मिन्मां तव हातुं न युज्यते ॥२॥
-४३-
आकार्य वनजान् वृक्षांचन्दनो
न हि भाषते ।
अहो गृह्णीत मे गन्धं दीयते वो मयेति च ॥१॥
योऽन्तर्यस्य स्वभावोऽसौ न बहिर्न प्रकाशते ।
बलादपि धृतो नाम दुर्वारः प्रकृतेर्गुणः ॥२॥
प्रबोधयति न प्रातः सविता निद्रिताञ्जनान् ।
'प्रकाशं
प्रतनुध्वं भोः'
निजान् रश्मीनिति ब्रुवन् ॥३॥
शिखिनां नर्तने हेतुर्ननु मेघस्य दर्शनम् ।
भूतार्थो नाम केनापि शक्यते न निगूहितुम् ॥४॥
-
४४
-
हस्तौ पादौ चान्दनौ चन्दनस्य स्पर्शस्याङ्गं सर्वतः स्पर्शरूपम् ।
दीपे ध्वान्तं नो पुरः पृष्ठतो वा सर्वाङ्गीणा माधुरी शर्करायाः ॥१॥
एवं तावद् दुर्गुणो नाम कश्चिद् नैव द्रष्टुं शक्यते सज्जनेषु ।
-
४५
-
हा
हा भक्तिविहीनस्य व्यर्थं मे याति जीवितम् ।
जगदीश दयालो त्वां नच जानामि सेवितुम् ॥१॥
अतो बध्दाञ्जलिस्तूष्णीं स्थितोऽस्मि पुरतस्तव ।
कांदिशीको बतेदानीं त्वत्पादार्पितलोचनः ॥२॥
सादरं स्वीकरिष्यामि दानं दास्यसि यत्प्रभो ।
-
४६
-
यद्याच्यं तच्छ्रीपतिर्याचनीयो भक्त्यास्माभिः सेवितव्यः स एव ।
तस्योपान्ते हीयते किं नु यस्य दासीभूता ऋध्दयः सिध्दयश्च ॥१॥
सृष्टाः सर्वे स्थावरा जङ्गमाश्च स्वास्थ्यं नीता येन विश्वंभरेण ।
तस्य प्रीत्यै सर्वलोकेश्वरस्य चित्तं वाचं कायमप्यर्पयामः ॥२॥
-
४७
-
सारं सकलशास्त्राणां वेदानां मूर्तिरेव यः ।
स
विठ्ठलः सहायो मे प्राणाभ्यधिकवल्लभः ।
नातो वशंवदोऽन्येषां नामैकशरणोऽस्म्यहम् ॥१॥
सगुणं निर्गुणं चेति रूपे द्वे यस्य कीर्तिते ।
स
विहारपरोऽस्माभिः सार्धं साक्षान्न संशयः ॥२॥
विधेरपि विधातारः स्वयं सिध्दा वयं किल ।
-
४८
-
क्षालितोऽपि महातीर्थे रासभो नैति वाजिताम् ।
किं खलेनोपदिष्टेन चित्तं तस्य न शुध्यति ॥१॥
शर्करामिश्रितं दुग्धं पायितोऽपि भुजंगमः ।
आत्मनो जन्मतः सिध्दं न जह्यादान्तरं विषम् ॥२॥
शुनः क्षीरस्य पानं हि वमनं च समं विदुः ।
-
४९
-
कियन्तो दाम्भिका लोके सन्ति साधुब्रुवो जनाः ।
कुर्वन्ति भूतिलिप्ताङ्गाः पापं मीलितलोचनाः ॥१॥
वैराग्यं प्रकटीकृत्य विषयानुपभुञ्जते ।
धिक् पाटवममीषां भोः धिक् संगं च कियद्ब्रुवे ॥२॥
-
५०
-
करेणैकेन बिभ्राणः खङ्गं चर्मापरेण च ।
रणे बत कथं योत्स्ये सुव्यापृतकरद्वयः ॥१॥
सन्नो वर्मादिभारेण मृत्योरिव वशे स्थितः ।
किं च वाजिवरे तुङ्गे बलादेव निवेशितः ॥२॥
कथं द्रुतं समेष्यामि सहसैवारिसैनिकैः ।
इत्युपायानिमान् सर्वान् अपायान् संप्रधारयन् ॥३॥
हा
हेति क्रोशति क्लीबो भयमोहितचेतनः ।
प्राणी तावत् परं ब्रह्म वर्म जानाति न त्विदम् ॥४॥
-५१
-
अन्धकारं विचिन्वन्तो दीपमादाय यत्नतः ।
वीक्षितुं प्रभवन्तीति न विचारयितुं क्षमम् ॥१॥
कलिकालान्न भेष्यामो विष्णोर्दासा वयं किल ।
कथं विलोभयेदस्मान् संसारमृगतृष्णिका ॥२॥
न
पांसुटलैः क्षिप्तै- र्दूष्यन्ते रश्मयो रवेः ।
भाग्यहीनैर्निर्विवेकैः कथं बत न बुध्यते ॥३॥
तृणैः संव्रियते वह्नि- रयथार्थमिदं वचः ।
-
५२
-
लाघवं देहि मे देव गौरवं जातु मास्तु मे ।
अहो पिपीलिका क्षुद्रा शर्करामश्नुतेऽशितुम् ॥१॥
वारणस्तु महारत्न- मङ्कुशेन प्रतुद्यते ।
गरीयान् महिमा यस्य दुःसहा तस्य यातना ॥२॥
अतो विवेकिना भाव्यं लघुतोऽपि लघीयसा ।
-
५३
-
सा
श्रेयसी नीचदशा मता मे मर्ूच्छन्ति यस्यां न हि मत्सराद्याः ।
पूरेण हार्या महता हि वृक्षा- स्तिष्ठन्ति सुस्थाः खलु वेतसास्तु ॥१॥
ये
सन्ति नीचैः शिरसः पुरस्तान्- तुङ्गास्तरङ्गा अतियन्ति सिन्धोः ।
अहो बताग्रे चरणानतानां नूनं बलाढया अपि दुर्बलाः स्युः ॥२॥
-
५४
-
रविश्च दीपश्च मणिश्च द्दश्यानर्थान् स्वभासा किल भासयन्ति ।
सन्तस्त्वदृश्यं परमात्मरूपं प्रकाशतां स्पष्टतया नयन्ति ॥१॥
ब्रह्माद्यगम्यो महिमा किलैषां न पामरो वर्णयितुं क्षमोऽस्मि ।
निर्वापयेच्चन्दनेनाङ्गतापं सत्सङ्ग एव त्रिगुणस्य बाधाम् ॥२॥
पिण्डस्य पुष्टिं
पितरौ विधत्तः सत्संगमः कृन्तति जन्ममृत्यू ।
क्षुन्नाशहेतुः किल मिष्टमन्नं भवार्तिभङ्गाय वचः सतां तु ॥३॥
तस्मादहूतोऽपि सतां श्रयेत सद्भावतः पादयुगं मनस्वी ।
-
५५
-
कायेन वाचा मनसापि देव सर्वात्मना त्वां शरणं गतोऽस्मि ।
त्वया विना मे रुचयेऽस्ति नान्यत् त्वत्पादयोरेव मतिर्मदीया ॥१॥
सुदुस्तरं मे विषमं त्वदन्यः को नाम भो वारयितुं समर्थः ।
दासा वयं ते त्वमृणी च नोऽस्ति संबन्ध एषोऽस्ति मिथः पुराणः ॥२॥
द्वारेऽस्मि तेऽहं स्थितिभागिदानीं देयस्य मेऽर्थस्य हि याचनाय ।
-
५६
-
सतां संनिवासे सुभिक्षं सुखस्य न दुःखस्य लेशो न वा कापि चिन्ता ।
अहं याचकस्तत्र वत्स्यामि नित्यं प्रदास्यन्त्यमी एव मह्यं
सुभिक्षाम् ॥१॥
सतां संनिवासे धनं विठ्ठलोऽस्ति सतां भोजनं नाम पीयूषपानम् ।
सतामापणे दीयते गृह्यते च सदा प्रेमसौख्यं विना मूल्यमेव ॥२॥
सतां संनिधौ कोऽपि नान्यः प्रकारः सतामेव तस्मादहं याचकोऽस्मि ।
-
५७
-
दत्त्वा प्रेम त्वया चित्तं याचितं मम विठ्ठल ।
अयं विनिमयो युक्तः संवृत्तः किं बतावयोः ॥१॥
भावादेकं हरन् देव यस्त्वमन्यत् प्रयच्छसि ।
तमुदारं कथंकारं ब्रूमहे त्वां नु तत्त्वतः ॥२॥
अल्पार्थे बहुलं हृत्वा कुण्ठितां कुरूषे मतिम् ।
वित्ते ह्यपहृते चित्ते को न वा विमनायते ॥३॥
-
५८
-
रुवता कुक्कटेनैव किमुद्यन् कथ्यते रविः ।
नोदितं भास्करेणेति ज्ञेयं किं कुक्कटारूते ॥१॥
आरोप्यते वृथा सत्त्वं किं मय्यनधिकारिणि ।
भृत्येनासेवितः स्वामी किं नान्नं विन्दतेऽशितुम् ॥२॥
अनन्तस्य करायत्ता विद्यन्ते सकलाः कलाः ।
-
५९
-
भक्तेऽसति कथं देवः साकारः सेव्यतामियात् ।
तौ
परस्परशोभायै भवतो हेमरत्नवत् ॥१॥
देवादृते कुतोऽन्यस्मात् भक्तो निषकामतां व्रजेत् ।
शिशौ मातुस्तथा भक्ते स्नेहो देवस्य शावतः
॥२॥
-
६०
-
शुभमाचरितं शिशौ यदि स्यात् हृदये तत्कुरुते पदं जनन्याः ।
मनुते ननु जीवितादपीयं सुतरां वल्लभमर्भकं स्वभावात् ॥१॥
उपचारकृतेऽपि बालकचेत्
यदि तस्या अपनीयते सकाशात् ।
विषवत् खलु दारूणो वियोगो बत तस्या अतिमात्रदुःसहः स्यात् ॥२॥
चरणे नवनीतलोपनेन नयनं निर्वृतिमश्नुते न किं वा ।
-
६१
-
कौतुकेन जननी निजबालान् न प्रवर्तयति किं कलहेषु ।
आत्मना च जनितान् कलहांस्तान् वीक्ष्य किं न रमते स्वयमेव ॥१॥
मामकोऽयमिति चुम्बति सैकं ताड़यत्यपरमेव तु कंचित् ।
बालकेषु सकलेषु तु तस्या-स्तुल्य एव भवति प्रियभावः ॥२॥
अल्पमस्तु तव मे बहु खाद्यं वाद एव वितथोऽस्ति शिशूनाम् ।
वत्सलात्र जननी किल मूलं वेत्ति सैव सकलं च रहस्यम् ॥३॥ |