दक्षिणभारते तदानीं मुसलमानानां
राजकीया सत्ता आसीत् । गोवाप्रान्ते पोर्तुगीजा: सत्ताधारिण:। विजापुरे आदिलशाही,
अहमदनगरे निजामशाही, गोवळकोण्डाप्रान्ते कुतुबशाही इत्येतासां सत्तानां
परस्परसंघर्ष: आसीत्। युद्धविभीषिकया ग्रामाणि निर्जनानि भवन्ति स्म, लुठन्ते स्म।
राजान: कामविलासेषु मग्ना: आसन्। प्रजापीडकाश्चासन्। आचारभ्रष्टा: ब्राह्मणा:।
क्षत्रिया: वैश्यान् लुठन्ति स्म। बलात् धर्मान्तरं प्रचलति स्म। महाराज: लिखति ।
कथयति-
धर्माचारं परित्यज्य द्विजा पाखण्डचौरवत् ।
राजा स्वयं पीडयति वैश्यक्षत्रियबान्धवान्॥
एवं गते वैश्यशूद्रविषये
किं वक्तव्यम्? धर्मलोपात् सर्वत्र अधर्मराज्यं प्रावर्तत।
एवं अधर्मस्य बलात् धर्म: लुप्तश्च
सर्वथा।
अधर्म एव धर्मपदवीं प्राप्त:।
सन्तसज्जना: अवमानिता अभवन्।
न च देवा: सम्मानिता: मुस्लिमा: देवा:
सञ्जाता:।
समाज:
नानादैवतपूजकत्वात् विशकलित: आसीत्। धर्म: आकर्षणबिंदु:, धारणक्षमश्च नासीत्।
अज्ञानान्धकारस्य साम्राज्यं सर्वत्रातिष्ठत्। सर्वे प्रकाशदायकस्य सूर्यस्य
प्रतीक्षापरा: आसन्। अस्यां परिस्थितौ देहूग्रामे चित्सूर्योदय: सञ्जात:।
सन्तगृहमेलापके, गिलति
जगदन्धकारम्-उदित: भानु: तुकारूप:।
भगवद्भक्तयो:
बोल्होबा-कनकार्ययो: उदरे त्रिंशदधिकपञ्चदशशतोत्तरे शाके संवत्सरे तुकाराममहाराज:
जनिं लब्धवान्। श्रीमतां गृहे बाल्यं सुखेनैव क्रीडायां वात्सल्यकुतुके च व्यतीतम्।
प्राथमिकमध्ययनम् अध्यापकद्वारा गृहे एव अभूत्। अध्यापक: हस्ते लेखनफलकं गृहीत्वा
बालकस्य हस्तं स्वकरेण धृत्वा पाठयन्ति।
बालकस्य कृते नूनम्। गुरो: हस्ते
लेखनफलक:।
बाला: पाषाणखण्डानाम्
साहाय्येन अक्षरविरचनं कुर्वन्ति स्म।
विन्यासाय अक्षराणां विरचनं
पाषाणखण्डानाम्।
पिता बोल्होबा तुकारामाय प्रापञ्चिकान् पारमार्थिकान् पाठान् सममेव अपाठयत्।
ज्येष्ठेण बन्धुना सावजिना उद्यमान्वेक्षणं प्रत्याख्यातम्। पित्रा कुलक्रमागतस्य
वार्धुषिकव्यवहारस्य दायित्वं तुकारामे निक्षिप्तम्। विपणिषु विद्यमाने उद्यमगृहे
पितृसहायकत्वेन कार्यं निभालयता तुकारामेण प्राप्तं पर्याप्तं पाटवं तस्मिन्
व्यवहारे। वयस: त्रयोदशवर्षे एव प्रपञ्चस्य दायित्वं तुकारामस्य स्कन्धयो: आपतितम्।
महाराज: स्वतन्त्रतया व्यवहारार्थं समर्थ: अभवत्। अचिरादेव व्यवहारोद्यमे तेन
स्वस्यासनं स्थिरीकृतम्। स: जनानां प्रशंसाभाजनम् अभवत्। गृहगतं सात्त्विकं
वातावरणं व्यवसायक्षेत्रेऽपि समानीतम्। बन्धुत्रयस्य विवाहा: सम्पन्ना:। महाराजानां
प्रथमा पत्नी सततं कासपीडिता अवर्तत। अत: तेषां द्वितीय: विवाह: पुण्यपत्तनस्थस्य
प्रसिद्धस्य वार्धुषिकस्य अप्पाजी गुळवे महोदयस्य कन्यया जिजाऊ उपाख्यया आवल्या सह
सञ्जात:। उभयो: समृद्धयो: कुलयो: एष संयोग: अधिकतरसमृद्ध्यर्थं प्राभवत्। ऐहिकऐश्वर्यं
परां कोटिं प्रारोहत्। गृहे विपुलं धनधान्यमासीत्। वत्सलौ पितरौ , सज्जना:
बान्धवा: आरोग्यसम्पन्नं च शरीरमासीत्, नासीत् अण्वपि किमपि न्यूनम्।
सज्जना: मातृपितृबान्धवा:। गृहं
धनधान्यसमृद्धम्।
शरीरे आरोग्यं लोके मान:। न अण्वपि
न्यूनं कथमपि तत्र।
(महिपतबाबाचरितम्)
सुखसमाधानैश्वर्यपूर्णानि दिनानि कथं कदा च अतीतानि तन्न ज्ञातम्। तदुत्तरं तावत्
"सुखस्यानन्तरं दु:खम्’ इति सत्यम् समुपस्थितम्।