वयस: सप्तदशतमे वर्षे वत्सल:
कार्यकुशल: च पिता स्वर्गत:। स एव उभयविधेन पैतृकरिक्थेन तुकाराममहाराजं
ऐश्वर्यशालिनं व्यधात्।
यस्याश्रयेण दूरं तिष्ठति स्म । प्रपञ्चताप:, तच्छ्त्रमेव विनष्टम् ।
अकस्माद् एव पिता -त्राता संसारदु:खस्य दिवं गत:।
पितृदेहावसानसमये तुकाराम: तस्य
सविधे नासीत्। तेन तस्य असह्यं दु:खमनुभूतम्। किञ्चिदिव न्यूनीभूयमाने तस्मिन्
दु:खे संवत्सरेण माता तस्य अपि समक्षं पञ्चत्वं गता।
पश्यतो मे- मातापि गता- मृत्युलोकम्।
महाराजस्य शिरसि दु:खपर्वत: इव पतित:।
मात्रा महाराजस्य कृते किं न आचारितम्, सर्वमेव सुष्ठु समाचरितम्।
किं किं न करोति माता बालस्य लालने ।
तस्या: सेवा च पुष्टिश्च सदा तस्य हितेच्छया।
विनालस्यं विना कुत्सां गृहीत्वा कुक्षिस्कन्धयो:।
वयस: अष्टादशवर्षे ज्येष्ठबन्धो:
सावजीरायस्य पत्नी दिवं गता।आदावेव सावजी प्रपञ्चविरत: आसीत् पत्नीनिधनेन सोऽपि
बन्ध: गत:। तीर्थयात्रानिमित्तेन स: अपुनरागमनाय गृहत्यागं कृतवान्। कुटुंबात्
जनचतुष्टयं वियुक्तम्। यस्मिन् प्रपञ्चे किमपि न्यूनं नासीत् तस्मिन् क्रमश:
न्यूनै: प्रवेश: कृत:। महाराजेन धैर्येण सर्वं सोढम्। औदासीन्यं दूरं स्थापयित्वा
सम्यक् प्रपञ्चार्थं तेन मन: कृतम्। परं हा हन्तं ! एकविंशतितमे वर्षे काल:
विपरीत: आगत:। दक्षिणदेशे महान् अकाल: प्रावर्तत। अतीव भयंकर: आसीत् स अकाल:।
ख्रिस्ताद्बस्य १६२९ संवत्सरे, देव: विलम्बेन वृष्ट:। अन्तिमचरणे अतिवृष्ट्या
सस्यानि विनष्टानि। तथापि जना: दृढं आशाबद्धा आसन्। अग्रिमे वर्षे देवो रुष्ट: न
मनागपि वृष्टिरभवत्। सर्वत्र हाहाकार: अभवत्। धान्यं महार्घं समजायत । शतश: गावो
मृता: यवसाभावात्। अन्नाभावात् शतश: जना: कालकवलीभूता:। धनसम्पन्नानि कुलानि
धूलसाद् भूतानि। ख्रिस्ताब्दस्य एकत्रिंशदधिकषोडषशततमे संवत्सरे दैवीकोपेन अतिवृष्ट्या
क्षेत्राणि नष्टभ्रष्टानि। महापुरे बहुविधा हानि: सञ्जाता। एषा दुर्दशा
वर्षत्रयपर्यन्तं स्थिता। एतां विघ्नवर्धमानां परिस्थितिं वर्ण्यति महीपतिबाबार्य:-
काल: कठिन: समायात:- धान्याभाव: गृहे गृहे।
वर्षाकाल: जलं विना- मृता गाव: यवसं विना।
तदुत्तरं अकालेन उग्रतमं रूपं
धृतम्।
काले घोरे अभावपूर्णे धरणी आढकमात्रा।
तदपि न प्राप्नुवन्ति जना: -
प्रयान्ति जना: मृत्युसदनम् ।
रत्नाढकस्य मूल्येनापि आढकमिता: माषा:
दुष्प्रापा आसन्।
अकालाद्धि धनं सर्वं मानोऽपि विलयं
गत:।
अस्मिन् अकाले महाराजस्य प्रपञ्च:
पूर्णतया विलयं गत:। गाव: मृता:। वार्धुषिकवृत्ति: विनष्टा। व्यापारोद्यम:
खण्डित:। मानोऽपि क्षयं गत:। प्रथमं तावत् पत्नी रखुमार्या एकल: पुत्र: सन्तोबा च
अकालकवलीभूतौ। वार्धुषिकवणिग्जनाश्च अकालं सुवर्णप्राप्तिकालं मत्वा निर्ममतया
पीडयन्ति दीनजनान्। कृत्रिमां अभावग्रस्ततां निर्माय अद्यतनीया: लुठन्ति
जनसामान्यान्, एतत्तु वयं अधुनातने काले पश्याम:। अकालसदृश्यां दुरवस्थायामपि
धनप्रत्यर्पणं जनेभ्य: याचितुं कठोरहृदयं आवश्यकम्। तुकाराममहाराज: सर्वथा
विरुद्ध: दयावान् । स्वां दुदर्शां विस्मृत्य - दूरं स्थापयित्वा अकालपीडितेभ्य:
महाराजेन बहुधनं वितरितम्।
यद् किमपि अवशिष्टं तत् सर्वमपि
दत्वा - द्विजयाचकेभ्य: ।
तुका निष्काञ्चनोऽभवत् ।
कश्चिद् द्रव्यभाग: कालक्रमेण व्ययं
गत आसीत्, यद् किमपि अवशिष्टं तत् याचकेभ्य: ब्राह्मणेभ्यश्च यथाभिलाषं विभजितं
तुकाराममहाराजेन ।
प्रपञ्चं शून्यतां नीत्वा । पुण्यधर्म: बहु: कृत: ।
पितरौ- पत्नीपुत्रादीनां मृत्यु:
अकालकृता सर्वमुखी दुरवस्था, बान्धवकृता निन्दा, मानहानि: इत्यादय: विपत्तय:
महाराजेन महता धैर्येण सोढा:। तेषां प्रतीकार: कृत: । पलायनपर: नासीत् महाराज: ।
प्रपञ्चं जेतुं स: उत्सुक: आसीत्। रणाङ्गणात् भीरुवत् प्रत्यावर्तनम्
असम्मतमासीत् तस्य। असारात्सार: स्वीकरणीय आसीत्। विपद्ग्रामेण देहस्य
देहाधारितानां सम्बन्धानां , धनमानादीनां क्षणभङ्गुरत्वं अशाश्वतत्वं च प्रत्यक्षीकृतमासीत्
तुकारामेण। तेन हि शाश्वतस्य, शाश्वतसुखस्य अन्वेषणं प्रारब्धम् । चिन्तनं
प्रारब्धम्- कथं उद्वेगशमनोत्तरं परतीरं प्राप्नुयामि इति।