उत्तीर्णोऽहं भवे: कस्मात् मनसा सुष्ठु
चिन्तितम् ।
सत्यसंशोधनार्थं स: प्रस्थित:। भामनाथपर्वतं गत:। चिरंतनस्य
साक्षात्कारोत्तरमेव प्रत्यावर्तेयम् इति प्रतिज्ञातं तेन।
महाराजेन उग्रं तप: प्रारब्धम् । महाराजस्य शरीरम्
पिपीलिकावृश्चिकसर्पादय: आक्रमन्ति स्म । तं पीडयन्ति स्म।
व्याघ्रेण स आक्रान्त:। तथापि महाराजस्य निश्चय: सुदृढ: आसीत्।
पञ्चदशमे दिने सत्यं साक्षात्कृतं तेन ।
दृढं स्थित्वा भामगिरौ परब्रह्मणि सुस्थिर: ।
व्यालवृश्चिकव्याघ्रैश्च नित्यं यद्यपि पीडित:।
तपसा निश्चयात् तस्य सोढ्वा कष्टान् बहून्पुन:।
दिनै: पञ्चदशैरूर्ध्वं विट्ठल: साक्षितां गत:।
निराकार: परमात्मा प्राप्त: । देवेन भक्त: ’चिरंजीव’ इति
आशीर्वचोभि: अनुगृहीत: समाश्वासितश्च ।
अन्तर्यामी सहायोऽभूत् ददौ बुद्धिमविनाशिनीम् ।
महाराजस्य गृहत्यागानन्तरं तस्य अनुज: कान्होबा तस्य अन्वेषणार्थं
देहूगावपरित: गिरिकन्दरेषु विचरन् आसीत् । भ्रमन् स:
भामनाथपर्वतं प्राप्त:। आश्चर्यचकितश्च सञ्जात:।
तुकारामस्य देहोपरि पिपीलिकाव्याघ्रादीनां आक्रमणं दृष्ट्वा
व्यथित: स: साक्षात्कारोत्तरं भानम् आगतम् । तुकारामं मिलित्वा
स: आनन्दित: अस्य साक्षात्कारस्य स्थलस्य स्मृत्यर्थं कान्होबा
तत्र पाषाणराशिं स्थापितवान् । तुकारामं गृहित्वा स: देहूं
प्रतिनिवृत्त: । कान्होबात: ऋणप्रतिज्ञापत्राणि याचितानि तुकारामेण
। तेषां अर्धं कान्होबामहोदयाय समर्पितम् । स्वांशे आगतानि
ऋणप्रतिज्ञापत्राणि सपदि इन्द्रायण्यां निमज्जितानि, सर्वे वराका:
ऋणमुक्ताश्च कृता: । एष तावत्साक्षात् समाजवाद: ।
स्वप्रपञ्चार्थं धनस्य आवश्यकतायां सत्यामपि तेन तद् अविगणय्य
वार्धुषिकवृत्तिं सर्वथा त्यक्त्वा ईश्वराराधनं परं मतम् ।
कुलपरंपरागतं विट्ठलमन्दिरं भग्नमासीत् । तस्मिन् स्थले नूतनं
मन्दिरं निर्मितम् । प्रपञ्चं पृष्ठत: कृत्वा स: ईश्वरभजने
तल्लीन: अभवत् ।
कण्ठस्थीकृतानि। सज्जनानां वचनानि। विश्वासादरपूर्वकम् ।
कीर्तनार्थं तुकारामेण देवालय: निर्मित: न तु पुण्यलाभाय ।
हरिसंकीर्तनार्थं उपोद्बलकं पठनपाठान्तरं कर्तुं महाराज:
प्रतिदिनं भंडारापर्वतं गत्वा एकान्ते अभ्यासं करोति स्म ।
प्रतिदिनं प्रात: स्नानादिकं परिसमाप्य कुलदेवताया: अर्चां स्वयं
विधाय भंडारापर्वत: श्रयणीय इति आसीत् तस्य क्रम: ।
कीर्तनं सम्पूर्णं कर्तुं हस्तगतं, तुका करोति नूनम् अध्ययनम् ।
यथा नदीनां समुद्रं परायणं तथैव अध्ययनस्य तुकोबाराय: । यस्य हि
श्रवणं हृद्देशे स्थापनं ग्रंथानां पठनम्, निरन्तरम् ।
ज्ञानदेवमहाराजस्य ज्ञानदेवी अमृतानुभवश्च , एकनाथमहाराजस्य
एकनाथीभागवतटीका, भावार्थरामायणम्, स्वात्मानुभव:, नामदेवरायस्य
अभङ्गा:, कबीरस्य पदानि इत्यादिकं साहित्यं महाराजेन परिशीलितम् ।
ज्ञानदेव-एकनाथ-नामदेव-कबिरादीनां कानिचन वचनानि महाराज:
कण्ठस्थीकृतवान् ।
सार्थं कण्ठस्थीकरणं भाषणं करुणापरम्।
येन कृतं पूर्णतया तत्र कारणं सन्तप्रसाद:।
निर्गुणनिराकार: परमात्मा यै: सगुणरूपेण वर्णित: , अमूर्ताय यै:
मूर्तत्वम् उपहारीकृतम् तेषां सन्तसज्जनानां प्रसाद: महाराजेन
सेवित: । दृष्टानि पुराणानि अवलोकितानि च शास्त्राणि।
सम्यक्दृष्ट्वा पुराणानि ,आदृतानि दर्शनानि।
पुराणान्तरेषु इतिहास: सेवित: स्वादुरस:।
एकान्तवास: महाराजाय अतीव अरोचत। तस्मिन् एकान्ते अपि नैके तस्य
सखाय: समभवन्। लौकिकसखीभ्य: ते इतरा एव आसन्। के ते आसन्?
वृक्ष -वल्लरी - वनचरा: तस्य अभवन् सखाय:। पक्षिराजान:
मधुरमञ्जुस्वरेण परमेशं स्तुवन्ति स्म।
वृक्ष-वल्ली-वनचरा: सन्ति न: स्निग्धबान्धवा: ।
सुखयन्ति च कूजन्त: पक्षिणो मधुरस्वरा: ॥ १ ॥
प्रिय एकान्तवासोऽस्ति एतत्-सुख-निमित्तत: ।
अस्पृष्टाश्च वयं स्मोऽत्र गुण-दोषापवादत: ॥ धृ ॥
आकाश-मण्डपाधश्च आसने पृथिवीमये ।
रमते यत्र चित्तं मे तत्र क्रीडां करोत्यद: ॥ २ ॥
प्रिय एकान्तवासोऽस्ति एतत्-सुख-निमित्तत: ।
अस्पृष्टाश्च वयं स्मोऽत्र गुण-दोषापवादत: ॥ धृ ॥
कन्था, कमण्डलुश्चैतौ पर्याप्तौ देह-सेवने ।
वायुस् तत्तत्-स्वरूपोऽस्ति समयस्य च सूचक: ॥ ३ ॥
प्रिय एकान्तवासोऽस्ति एतत्-सुख-निमित्तत: ।
अस्पृष्टाश्च वयं स्मोऽत्र गुण-दोषापवादत: ॥ धृ ॥
कौशल्य-कृत-विस्तारं भोजनं च हरे: कथा ।
प्रकारैर् विविधैस् तच्च वयं सेवामहे रुचा ॥ ४ ॥
प्रिय एकान्तवासोऽस्ति एतत्-सुख-निमित्तत: ।
अस्पृष्टाश्च वयं स्मोऽत्र गुण-दोषापवादत: ॥ धृ ॥
तुका वदति, संवादो मनसो मनसा सह ।
नित्यं भवति, वादश्च आत्मना सह आत्मन: ॥ ५ ॥
प्रिय एकान्तवासोऽस्ति एतत्-सुख-निमित्तत: ।
अस्पृष्टाश्च वयं स्मोऽत्र गुण-दोषापवादत: ॥ धृ ॥
( भोजनम् - हरिकथैव भोजनम् इत्यर्थ: )
महाराजस्य पत्नी जीजार्या प्रतिदिनं गृहकर्माणि निर्वर्त्य
स्वयंपाकं पक्त्वा भोजनसामग्रीं महाराजार्थं गृहित्वा
भण्डारापर्वतं गच्छति स्म। महाराजस्य भोजनानन्तरमेव स्वयं भोजनं
करोति स्म । परमार्थसाधनायां निमग्ने महाराजे, विदेहावस्थायां तस्य
सर्वप्रकारां सेवां जीजार्या करोति स्म। महाराजस्य परमार्थसाधनायां
जीजार्याया: विशेषं दायित्वं वर्तते। शरीरश्रमेण परोपकार: ,
सन्तवचनानां पठनं कण्ठस्थीकरणं च, वाचा विट्ठलस्मरणम् , चेतसि च
तस्यैव ध्यानम् इत्येवंरूपा साधना अजस्रं प्राचलत् । फलस्वरूपेण
महाराजेण नामदेवरायेण सहागत: विट्ठल: पण्ढरीराय: स्वप्ने जागरिताय
तुकाराममहाराजाय जगदुद्धारार्थं कवित्वस्य प्रेरणां साक्षात्
दत्तवान् ।