महाराज: तावत्भवसागरात्मुक्त: आसीत्। अधुना केवलं
लोकोद्धारकार्यम् अवशिष्टम्आसीत्। तेन प्राप्त: प्रसाद: अन्यै:
सह विभजनीय आसीत्। परमात्मन: परेशस्य सन्देश: प्रतिगृहं
प्रापणीय: आसीत् ।
तुका वक्ति - सन्देशाय प्रेषितोऽस्मि। भक्तिमार्ग: एष: सुखरूप:।
महाराजस्य कवित्वस्फूर्ति: प्रकटिता अभवत्।
लब्धा कवित्वस्फूर्ति: । मनसा धृतौ चरणौ विट्ठलस्य ।
महाराजस्य मुखात् अभंगगङ्गा प्राभवत् । भाग्यवन्त: श्रोतार:
श्रवणसुखं अनुभवन्ति स्म ।
वक्तव्यमेवेति उच्यन्ते वचनानि यदृच्छया
प्रवाहस्वभावेन लीलया वहति गङ्गाजलम्यथा ।
भाग्ययोगाद्धि सर्वेषां श्रवणं सुलभं ननु।
कस्तत्र अधिकारस्य चिन्तां कुरुते हि निष्फलाम्।
महाराजस्य अभंगेषु श्रुतिशास्त्रस्य नवनीतम्, महाकाव्यानां सारश्च
प्रस्फुटित अभवत्। आळन्दीग्रामे ज्ञानदेवानां मंदिरस्य महाद्वारे
कीर्तनं प्रारब्धम्। आळन्दीग्रामे वर्तमानस्य
रामेश्वरभट्टमहोदयस्य कर्णयो: तुकारामस्य प्रासादिकीवाणी
वज्राघातवत्पतिता। स: विस्मयचकित: समभवत्। "किं एषा गीता
भागवतम्वा?एषा प्रत्यक्षा वेदवाणी - वेदार्थ: प्राकृतभाषया
शूद्रमुखाद्अवतीर्ण:" ।
कवित्वं हि तुकाकृतं श्रुत्वाभिज्ञाय च ।
वेदार्थो हि स्फुटं तत्र- तस्य मुखे शूद्रस्य ? न श्रोतव्य: कथञ्चन
।
निषेध्योऽसौ प्रयत्नेन न भेतव्यं कथंचन । धिक्कृत्य
रामशास्त्रिभि: कथितम्भवांस्तावच्छूद्र: । परं भवतां अभंगवाणी
वेदार्थं प्रकटीकरोति । तत्र त्वं न अधिकारी । त्वन्मुखात्तस्य
श्रवणम्अधर्मम्आपादयति। केन प्रचोदितोऽसि अस्मिन्कर्मणि ?
 
तुकारामेण झटिति उक्तम् - “न एषा मम वाणी। एषा तु देववाणी एव ।”
कवयामि काव्यम्इति कोऽपि वदेत्यदि ।
शपे सत्येन शपे- न ममैषा स्वीया वाणी ।
न मे बुद्धियुक्त्या कृतैषा कथञ्चित्।
विश्वंभर: मां मुखरीकरोति ।
ईश्वरो मे सहैवास्ति - वसति स: मय्येव हि ।
अज्ञात्वा इव वै अर्थं कवयामि, भवतां कोपकारणम् ।
नामदेवेन सह आगत्य पण्ढरीनाथेन आज्ञप्तोऽस्मि काव्यकरणे ।
वक्ति विप्र: कथं नाम जानीयात्आज्ञाकरणम् ।
अत स्वयं त्वमेव हि त्यज काव्यं जलेऽचिरम् ।
यदि नारायणस्तत्र रक्षित्वा अर्पयेत्पुन:।
लीलया तर्हि सर्वेषां काव्यं मान्यं भविष्यति ।
काव्यं जले क्षेप्तव्यम् । यदि देववाणी तर्हि देवद्वारा तस्य
रक्षणं तत्रापि भविष्यति । रामेश्वरशास्त्री तुकारामस्य
अधर्मम्अधिकृत्य ग्रामाधिकारिणम्निवेदितवान् । स: क्रुद्ध: ।
जनाश्च सन्तप्ता:।
कुपित: ग्रामाधिकारी। कुपिताश्च जना: सर्वे ।
कुत्र गन्तव्यं किं खाद्यं कथं वास: ग्रामे ननु ॥
तुकाराममहाराजेन अभंगपुस्तिका: गृहीता:। शिलासहितास्ता:
इन्द्रायणीमध्ये मज्जिता:। पुरा व्यवहारपत्राणि - नाम अर्थ: -
जलसात्कृतानि अधुना तु अभंगपुस्तिकारूप: परमार्थ: अपि निमज्जित:।
अभंगान्मज्जयित्वा तु निग्रहेण स्थितोऽस्म्यहम् ।
तुकाराम: अतीव दु:खित: अभवत्। जना: निन्दापरा: अभवन्कीदृश:
दृष्टान्त: कीदृशश्च प्रसाद:। सर्वं मिथ्याचरणम् । कोऽस्य देव:
कीदृशोऽस्य धर्म:। मन्दिरस्य महाद्वारे शिलायां तुकाराम: सनिग्रहं
उपविष्ट:। प्राण: पणीकृत:। निर्बन्ध: स्वीकृत:। त्रयोदशदिनानि
व्यतीतानि। देव: न कृपापर:।
सनिर्बन्धं व्यतीतानि त्रयोदश दिनान्यहो ।
कृपां नैव करोषि त्वं कथं मातृपितृरूप: सन् ।
इत: रामेश्वरशास्त्री तुकारामं निषिध्य आळंदीत: प्रस्थाय
नागझरीप्रभासमीपं पञ्चवटीम्आगत:। सरोवरे स्नानार्थम्अवतीर्ण:।
तस्य स्नानसमये कश्चित्"फकीर:" जलं नेतुं तत्र समायात:।
रामशास्त्रिणम्“को भवान् ? कुत: समायात:” इत्यादिकं पृष्टवान्
। ’न श्रुणुयात्यावनीं भाषाम्’ इति विचारेण कर्णौ पिधाय
रामशास्त्री जले अवगाहनम्अकरोत्। तस्य अनेन आचरणेन सिद्धफकीर:
क्रुद्ध:। तेन रामशास्त्री शापित:। जलाद्बहिरागतमात्रे तस्य
शरीरदाह: प्रारब्ध:। फकीरशापात्मुक्तिं प्राप्तुं शिष्यसमवेत:
शास्त्री आळंदीं प्रतिनिवृत्त:। अजानवृक्षस्य अध: अनुष्ठानं
प्रारब्धम्।
त्रयोदश्यां रात्रौ बालकवेषेण सगुणरूपेण च भगवान्तुकोबारायं
मिलितवान् । उक्तवान्च “त्रयोदशदिनानि यावत्जले स्थित्वा
रक्षिता: मया काव्यपुस्तिका:। श्व: ता: जलोपरि आगमिष्यन्ति” इति ।
देहूग्रामस्था: भाविका: एवमेव दृष्टान्तेन भगवता प्रतिबोधिता:।
दृष्टान्तस्य प्रत्यक्षीकरणाय सर्वे भक्ता: इंद्रायणीतीरं
प्राप्ता:। अहो आश्चर्यम्। सर्वा: पुस्तिका:स्वयमेव जलप्रवाहे
जनै: दृष्टा:। अवगाहननिपुणै: जलम्प्रविश्य उधृतास्ता:।
पुस्तकाणां जलस्य स्पर्शोऽपि नासीत्। सर्वै: जयजयकार: कृत: ।
साक्षात्परमेश्वर: स्वकारणात्कष्टं प्रापित: इति भावनया तुकाराम:
भृशं दु:खित अभवत् ।
प्रभो ! अन्यायम्आचरितं परीक्षा तव भो: कृता ।
जनापवादान्मुधा चित्तं प्रक्षोभं प्रापितं ननु।
जनवादं निराकर्तुं कगर्जा रक्षिता: पुन:।
तुका वक्ति भक्तार्थं हि वचनं परिपालितम्।
तत्र आळन्द्यां ज्ञानदेवमहाराजेन रामेश्वरशास्त्री उक्त : “भवता
निन्दया तुकाराम: परिपीडित: तस्य फलं एष दाह: । अस्य उपाय: एक एव
इत: देहूग्रामं गत्वा तुकाराम: द्रष्टव्य:” इति । रामेश्वरशास्त्री
देहूं प्रति प्रस्थितोऽस्ति इति ज्ञात्वा तुकारामेण एक: शिष्य:
अभंगेण सह आळंदीं प्रेषित: । तं पठित्वा रामेश्वरभट्टानां देहदाह:
शान्त: अभवत् ।
चित्ते शुद्धे शत्रु: मित्रत्वमेति । न व्याघ्र: अत्ति सर्पं
कदाचित्।
दु:खं यत्तद्सौख्यफलं स्यात्वह्निज्वालाश्च शीतला:॥
रामेश्वरभट्ट: स्वानुभवं एवं कथयति -
अन्तरङ्गे कृते द्वेषे शरीरं दाहदु:खभुक्।
तुकारामस्य सङ्गेन देह: शीतलतां गत:॥
रामेश्वरभट्ट: तुकारामस्य दर्शनार्थं देहूम्आगत्य कथाकीर्तनादिकं
श्रोतुं तत्रैव न्यवसत् । रामेश्वरभट्टस्य शापमुक्तिवृत्तान्तं
श्रुत्वा अनगडशह: विषादम् अनुभूतवान् । तुकारामस्य पीडायै देहूं
प्राप्त:। तुकारामस्य गृहं गत:। मुष्टिमतं पिष्टं याचितवान् ।
महाराजस्य कन्यया अत्यल्पं पिष्टं भिक्षापात्रे दत्तम्। तदेव
वृद्धिं गत्वा क्षणात्भिक्षापात्रं प्रपूर्य अध: पतितम् ।
सिद्धस्य तप:सामर्थ्यं तुकारामस्य द्वारि विलयं गतम् । अनगडशह:
भक्तिभावेन तुकारामम्अभजत्भजनकीर्तनं श्रोतुं तस्य सन्निधौ
अतिष्ठत्, दार्शनिकज्ञानं पाण्डित्यं ऋद्धि-सिद्धी च हरभक्तिं
शरणं आगता: । ’तुकारामस्य अभङ्गा जले क्षिप्ता अपि अक्लिन्ना
अतिष्ठन्’ इति वृत्तम्सर्वत्र प्रसृतम्अभूत् । तेन हि
लोकापवाद: परिहृत:। अभंगवाक् अविनाशिनी भङ्गरहिता, सार्थनामा
सञ्जाता । परमात्मन: सगुणदर्शनेन तुकारामस्य कथाकीर्तनस्य मार्ग:
प्रशस्ततर: सञ्जात:।