सर्वत्र रामनाम । नाचरति कोऽपि कर्म।
महाराजस्य कीर्तनानि महता उत्साहेन प्रचलितानि । तस्य लोकोद्धारस्य
जनजागरणस्य च प्रमुखं साधनं कीर्तनमेव आसीत् ।
न्यूनीकृत्वा साधनानि कीर्तनेन सुलभ: स:।
भगवान् श्रीकृष्ण: मथुरायां जनिभलभत किं तु प्रेमसुखं
उपभुक्तं गोकुलवासिभि: तथैव महाराजस्य जन्म देहूग्रामे अभवत् परं
भक्तिप्रेमसुखं प्राप्तं लोहगावग्रामस्थै:। लोहग्राम: महाराजास्य
मातामहगृहम्। तत्रैव वारंवारं महाराजस्य कीर्तनानि भवन्ति स्म।
एकदा द्वौ संन्यासिनौ महाराजस्य कीर्तनं श्रोतुं उपस्थितौ। ताभ्यां
दृष्टम्- स्त्रीपुरुषा: सममेव तल्लीनतया कथाकीर्तनश्रवणं
कुर्वन्ति, उच्चनीचा: ब्राह्मणशूद्रा: च विस्मृत्य परस्परभेदं
अन्योन्यं नमस्कुर्वन्ति। अस्तंगतोऽस्ति भेदभाव:। एतत्सर्वं अनुभूय
तुकारामस्य निन्दां ब्राह्मणानां च निर्भत्सनां कृत्वा अभणताम् -
कर्मभ्रष्टा: यूयम् । शास्त्रोक्तं कर्ममार्गं विहाय भवद्भि;
नामस्मरणमार्ग: स्वीकृत:। तौ तस्मात्स्थानात् निर्गत्य अस्य
प्रकरणस्य अन्तिमं निर्णयं न्यायसम्मतं प्राप्तुं दादोजी-
कोण्डदेवं प्रति गतौ ।
न्यायं कुरुत न्यायं वदत । निर्लज्जानामेषाम्।
सर्वत्र गर्जति रामनाम। नाचरति कोऽपि कर्म।
तौ तत्र आक्षिप्तवन्तौ – “लोहग्रामस्थै: परित्यक्तानि धर्मकार्याणि
। ते शूद्रस्य वशं गता: - रामनामपरायणा: सर्वे । अत्र अधरोत्तरं
भवान् एव पश्यतु ।” सैनिकान् प्रेषयित्वा दादोजि: ब्राह्मणान्
शतं दण्डितवान् । तुकारामं लोहग्रामस्थान् च आहूतवान् ।
भक्तजनै: सह तुकाराम: पुण्यपतनं संगमस्थानं आगत: कीर्तनं च
प्रारब्धवान् । तुकारामागमनवृत्तान्तं श्रुत्वा अखिला पुण्यनगरी
प्रधाविता महाराजस्य दर्शनार्थं श्रवणार्थं च । दादोजि: अपि
कीर्तनश्रवणे मग्न:। तौ संन्यासिनावपि तथैव श्रवणमग्नौ । अकस्मात्
ताभ्यां तुकारामस्य देहे परब्रह्मस्वरूपं साक्षात्कृतम् । तेन
प्रभावितौ तौ झटिति तुकारामस्य पुरत: साष्टांगप्रणिपातं कृतवन्तौ
। दादोजि: अस्य वर्तनस्य स्पष्टीकरणं प्रार्थितवान्
“भवद्दृष्ट्या यद् अयुक्तम् तद् स्वयं भवन्तौ एव कथं आचरत:?”
उभाभ्यां निवेदितम् - “कीर्तनावसरे तुकारामे नारायणं पश्याव:”
इति । स्वयं दादोजिना महाराजस्य सम्मान: अनुष्ठित:। संन्यासिनौ
नगरात् बहि: निष्कासितौ ।