बीड्मण्डलस्थ: अधिकारी देशपाण्डे पश्चिमे वयसि पाण्डित्यप्राप्तौ उत्सुक: आसीत् । अस्मिन् वयसि अध्ययनकण्ठस्थीकरणादिद्वारा पाण्डित्यं न संभवति इति ज्ञात्वा ज्ञानेश्वरमहाराजस्य कृपाप्रसादं प्राप्तुं सनिग्रहं स: तत्र उपविष्ट: । ज्ञानेश्वरेण स: उक्त:- त्वं स्वेच्छापूरणार्थं देहूग्रामं गच्छ । प्राप्स्यसि तत्र समाधानं इति । तत: स: देहूं प्राप्त: ।तस्मिन् समये तुकाराममहाराजेन एकत्रिंशत् अभङ्गा: रचिता: । तत्र नैकेषु अभङ्गेषु आदौ तावत् पांडुरंगस्य कृपाप्रसादार्थं दीना याचना आर्ततया कृता । केचन अभङ्गास्तत्र उपदेशपरा: सन्ति तेषु तुकारामस्य ज्ञानं , विचारपद्धति: उपदेशसरणि: तथा च तत्त्वज्ञानं इत्येतेषां सम्यक् परिचय: भवति । देशपाण्डेभक्तस्य इच्छां भगवते निवेद्य भवता एव तस्य समाधानं कृत्वा स्वस्य ईश्वरत्वं रक्षणीयम् इति विज्ञाप्ति: कृता ।
वचनं विना हि जानासि भावं जीवस्य उत्कटम् ।
समाधेयो देशपाण्डे स्वस्य सत्त्वमनुस्मरन् ।
हठपीडिताय उपदेश:
अलमधुना ग्रन्थ-पुस्तकपठनेन । अधुना एकमेव आचरणीयम्-भगवत्प्राप्त्यर्थं भगवत: भक्ति: । वार्धकं प्राप्तोऽसि अधुना किमर्थं विलम्बायसे इति ।
देहभावं हि विस्मृत्य अर्चनीयो हरिस्सदा ।
गोविन्दनामग्रहणेन भवतु ते परमकार्यम् तेन हि त्वमेव स्वयं गोविन्द: भविष्यसि ।
गोविन्द! गोविन्द! मनस: भवतु ते छन्द: ।
गोविन्द: ते भवेत् काय: भेदो न स्यात् मनागपि ।
सुखेन भोक्तव्यम् परमात्मन: चिन्तनं च करणीयम् । हरिकथा मातास्ति , समाधिरस्ति सुखस्य । श्रान्तानां छाया सा एव तदेव विश्रमस्थानम् ।
सुखसमाधि: हरिकथा सच्छायं विश्रम: श्रान्तानाम् ।
इतरै: अवश्यं उपवासादिसाधनानि उपयोक्तव्यनि । विट्ठलस्य दासेन चिन्तां विहाय श्रद्धाबलेन भगवद्भजने रन्तव्यम् ।
महाराजस्य अमूल्यम् उपदेशं धिक्कृत्य प्रतिगत: ।
देवस्य अभङ्गा: - महाफलं नूनं धिक्कृतं वराकेण-दुर्भाग्यवशात् ।