ये तु धर्म्यामृतमिदम्- गीता १२.२०
ये कथां रम्याममृतधाराधर्म्याम्।
कुर्वन्ति प्रतीतिगम्यां श्रुत्वा ते। देवस्य चरितं परमामृतं कथ्यते। भक्तचरितं तु
धर्म्यामृतम्। देवचरितांनि संतसज्जनै: गीतानि। परं संतचरितानि गातुं अस्मादृशै:
सामान्यै: कठिनमेव। यत: सन्त: यथा दृश्यन्ते तथा ते तत्त्वत: न भवन्ति यथा च भवन्ति
तथा न दृश्यन्ते। ततोऽपि अस्मच्छब्दधनमपि स्तोकम् अल्पस्वल्पं च।
अस्मादृशानां कथां वक्तुं न हि
वाक्सृष्टिरस्ति हि।
अस्मादृशानां दृष्टिश्च केवलं
नाममात्रिका। ( अमृतानुभव:)
यदि भवन्त: पृच्छन्ति
सन्तजनम्-‘कस्त्वम्? कुत आयात:? कुत्र गम्यते? किं नामधेयो भवान्? किंरूप:?’ इति।
तदा स: कथयेत् ‘न किमपि कथनीयम् अत्र’ इति।
नास्मि
कस्यापि ग्रामस्य एकोऽहं एकस्थानक:।
न गच्छामि कुत्रापि पुनरागमनं कुत:?
वाचामात्रमिदं सर्वम्।
नामरूपक्रियाकर्म-अतीतोऽस्मि, तुकावच:।
एवं स्थितेऽपि
तुकाराममहाराजस्य महत: चरितस्य अल्पांशं प्रस्तोतुं प्रयतिष्यामहे। |